पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३४ अथर्वसंहिताभाष्ये तत्र प्रथमा । 99 असपत्नं पुरस्तात् पश्चान्नो अभयं कृतम् । सविता मा दक्षिणत उत्तरान्मा शचीपतिः ॥१॥ असपत्नम् । पुरस्तात् । पश्चात् । नः । अभयम् । कृतम् । सविता । मा । दक्षिणतः । उत्तरान् । मा। शचीऽपतिः ॥१॥ पुरस्तात् पूर्वस्यां दिशि असपत्नम् सपत्नराहित्यं शत्रुबाधापरिहारं नः अस्माकं कृतम् कुरुतम् । सामर्थ्याद् उत्तरार्धे निर्दिष्टौ सवितृशचीपती संबोध्येते । पश्चाच्च अभयं कुरुतम् । करोतेर्लुङि “मन्त्रे घस. इति च्लेर्लृक् । अमाङ्योगेपि छन्दसि अडभावः । करोतेर्लोटि वा श- पो लुक् ॥ अथ परोक्षवचनः । मा मां दक्षिणतः सविता सर्व- स्य प्रेरको देवः । रक्षतु इति क्रियाध्याहारः । उत्तरात्त् उत्तरतः शची- पतिः शची इन्द्राणी तस्याः पतिरिन्द्रः मा मां रक्षतु ॥ दिवो मादित्या रक्षन्तु भूम्या रक्षन्वग्नयः । इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् । तिरश्चीनघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥ २ ॥ दिवः । मा। आदित्याः । रक्षन्तु । भूम्याः । रक्षन्तु । अग्नयः । इन्द्राग्नी इति । रक्षताम् । मा। पुरस्तात् । अश्विनौ । अभितः । शर्म । यच्छताम्। तिरश्चीन् । अन्या । रक्षतु । जातऽवेदाः । भूतऽकृतः । मे । सर्वतः । सन्तु । वर्म ॥२॥ द्वितीया ॥ आदित्याः अदितेः पुत्राः सर्वे देवा दिवः धुलोकाद् मा मा रक्षन्तु । धुलोकनिबन्धनेभ्योऽशन्यादिभ्यो दैवीभ्य आपद्भ्यो रक्षन्तु ॥

  • ABCDKS VC-DEPÞJ 74. We with R. Beraft°. We with PJ.

RSU ABCDËRŠCD. Vraestari with Sayaņa. PŘI forzatai al x So all our Suñlità MSS. PPJUTI.