पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०२. सू०१६.] ५६० एकोनविंशं काण्डम् । ३३३ अभयम् । मित्रात् । अभयम् । अमित्रात् । अभयम् । ज्ञातात् । अभ- यम् । पुरः । यः। अभयम् । नक्तम् । अभयम् । दिवा । नः । सर्वाः । आशाः । मम । मित्रम् । भवन्तु ॥ ६ ॥ मित्रान् सुहृदः अभयम् भयराहित्यम् अस्तु । सर्वदा हितकारी ख- लु पुरुषो मित्रम् तस्माद् भयप्रसङ्ग एव नास्ति किमर्थ भयराहित्यम् आशास्यते । सत्यम् । अत्र भयराहित्यं1 न प्रार्थते किं तु भयव्यतिरिक्तं हितं फलं सर्वदा भवविति । X अत्र नञस्तदन्यत्वम् अर्थः । त- था अमित्रात् । अमेरित्रमत्ययः । शत्रोः सकाशाद् अभ- यम् अस्तु । अत्र भयपरिहारः प्रार्थते । अमित्रं विशिनष्टि । ज्ञातात् द्वेष्ट्रत्वेन परिज्ञानाद् अमित्रात् । यः परः ज्ञाताद् अन्यः अपरिज्ञातः प्रका- शशत्रुर्न भवति किं तु गूढ2शत्रुः तस्माच्च अभयम् अस्तु । नक्तम् रात्री दिवा अहनि नः अस्माकम् अभयम् अस्तु । अहोरात्रयोरभयमार्थनेन काल- निबन्धनभयपरिहारः । सर्वा आशाः सर्वा दिशः मम अ3भयकामस्य मित्रम् मित्रवन्मित्रं सर्वदा हितकारिण्यो भवन्तु । अनेन सर्वतो भी- तिनिवारणम् आशास्यते ॥ [इति ] द्वितीयेनुवाके षष्ठं सूक्तम् ॥ "असपत्नं पुरस्तात्" इति सूक्तचतुष्कस्य रात्रौ पुरोहितकर्तव्ये राज्ञः शय्यागृहप्रवेशकर्मणि अभिमन्त्रितशर्करायाः प्रतिदिशं प्रदक्षिणं प्रक्षेपे वि- नियोगः । “अथातो रात्रिसूक्तानां [विधिम् ] अनुक्रमिष्यामः” इति प्रक्रम्य उक्तं परिशिष्टे । “व्यायुषम् [५.२६.७] इति राज्ञे रक्षां कृ. 'त्वा असपत्नम् [१९. १६] इति शर्कराम् अभिमन्त्र्याङ्गुष्ठात् प्रदक्षिणं 'प्रतिदिशं क्षिपेत्” इति [५० ४.५] । असपत्नम् इत्येकेन प्रतीकेन समनन्तरं सूक्तत्रयं समानार्थत्वाद् गृह्यते । अत एव असपत्नम् इति अ. र्थसूक्तम् आथर्वणा व्यवहरन्ति ॥ 18 राहित्यमत्र for 'राहित्ये. 25 मूढशत्रु:- S' भयकामस्य.