पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३२ अथर्वसंहिताभाष्ये बृहन्ता बृहन्तौ महान्तौ बाहू उप क्षियेम उपप्राप्नुयाम । शरणेति वि- धेयविशेषणम् । रक्षकत्वेन उपगच्छेम । क्षि निवासगत्योः । तौ- दादिकः । विधिलिङि रूपम् ॥ पञ्चमी ॥ अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे। अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ॥ ५ ॥ अभयम् । नः । करति । अन्तरिक्षम् । अभयम् । द्यावापृथिवी इति । उभे इति । इमे इति । अभयम् । पश्चात् । अभयम् । पुरस्तात् । उतऽतरात् । अधरात् । अ- भयम् । नः । अस्तु ॥ ५॥ अन्तरिक्षम् अन्तरा क्षान्तं मध्यमलोकः नः अस्माकम् अभयम् भ- यराहित्यं करति कुर्यात् । करोतेः पञ्चमलकारे अडागमः । इ- मे सर्वप्राणिनिवासस्थानभूते परिदृश्यमाने उभे द्यावापृथिवी द्यावापृथि- व्यौ अभयम् । करतीति अनुषज्यमानं क्रियापदम् अत्र द्विवचनान्तत्वेन विपरिणमयितव्यम् । कुर्याताम् । तथा पश्चात् पश्चिमस्यां दिशि नः अ- स्माकम् अभयम् अस्तु । पुरस्तात् पूर्वस्यां दिशि उत्तरात् उदीच्यां दिशि अधरत् उत्तरप्रतियोगिकः अधरशब्दो दक्षिणदिग्वाची । दक्षिणस्यां दि- शि नः अस्माकम् अभयम् अस्तु । उत्तराधरदक्षिणाद् आ- तिः" इति आतिप्रत्ययः ॥ षष्ठी॥ अभयं मित्रादर्भयममित्रादभयं ज्ञातादभयं पुरो यः । अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ॥ ६ ॥ ABCDÜRŠ V Cs Dc °FHÀ. PŮJ PI. We with Sá yuna. KR VICs De. C पुगेयः clhangeel to पुरोयः. D पुगेयः, 3 पुरोयः without accents. P PJ पुरः । यः। RSU BK