पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

न ३३० अथर्वसंहिताभाष्ये मध्यमास इन्द्रं यान्तोवसितास इन्द्रम् । इन्द्रं क्षियन्त उत युध्यमाना “इन्द्रं नरो वाजयन्तो हवने” इति [ऋ०४.२५..] । अ- नुपूर्वाद् राधतेः कर्मणि पनि "उपसर्गस्य घज्यमनुष्ये.” इति 1अनोः सांहितिको दीर्घः । ईदृशम् इन्द्रं वयं हवामहे स्वेष्टसिद्ध्यर्थम् आह्वयामः । इन्द्रमार्थनया वयं द्विपदा पादद्वयोपेतेन पुत्रभृत्यादिना चतुष्पदा पादचतुष्टयोपेतेन गवाश्वादिना च अनु राध्यास्म अनुक्रमेण संपन्ना भूयास्म । पुत्रभृत्यगवादिरूपाभिमतर्फल2समृद्धा भवेम । राध साध संसिद्धौ । आशीर्लिङि रूपम् ॥ किं च अररुषीः अदात्र्यः अभिमतफलप्रति3बन्धिकाः सेनाः शात्रवीया नः अस्मान् मोप गुः मो- पगच्छन्तु समीपं मा प्राप्नुवन्तु । अररुषीरिति । नञ्पूर्वाद् रातेः क्व4सौ “उगितश्च” इति ङीपि "सोः संप्रसारणम्" । "वा छन्दसि' इति पूर्वसवर्णदीर्घः । अव्ययपूर्वपदप्रकृतिस्वरत्वेन आद्युदात्तः । न केवलं समीपप्राप्त्यभावः किं तु हे इन्द्र विषूचीः विष्वगञ्चनाः सर्वतो व्याप्ता द्रुहः द्रुह्मन्तीस्ताः शत्रुसेना वि नाशय विशेषेण जहि ॥ तृतीया ॥ इन्द्रस्रातोत वृत्रहा परस्फानो वरेण्यः । स रक्षिता चरमतः स मध्यतः स पश्चात् स पुरस्तान्नो अस्तु ॥ ३ ॥ इन्द्रः । त्राता। उत । वृत्रहा । परस्फानः । वरेण्यः । सः । रक्षिता । चरमतः । सः । मध्यतः । सः । पश्चात् । सः । पुरस्तात् । नः । अस्तु ॥३॥ उत अपि च वृत्रहा वृत्रम् आवरकम् असुरं मेघं वा हतवान् इन्द्रः १ A B C D K K RSC: परम्फानो n almore. Siyana explains परस्पा नो, though his text exhibits Tari which perhaps originally was TEUR. K xreins to correct its original realing lo) Terr. C has also correrted FFT to EST, which V alrcaily reals in ith Sityana. D: परस्फानो changcel to परस्पानो, There is no loubt परस्फानी the ancient Atharra rendling. २० PPJ. ३PJ च । रमतः १. 18'मनोः. 38 प्रबन्धिकाः 18 क्ववसो. 28 om. फल.