पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

करोते- [अ°२. सू०१५.] ५५९ एकोनविंशं काण्डम्। ३२९ हे इन्द्र अभयंकर यतः यस्माद्धेतोः भयामहे बिभीमः भीतिं प्राप्नु- मः। 1बिभेते: सामान्यविहितः कर्तरि शबेवोत्पन्नः । यद्वा लेख्या- डागमः । उभयत्र व्यत्ययेन आत्मनेपदम् । 'भीत्रार्थानां भयहेतुः" इति यत इत्यत्र अपादानत्वात् पञ्चमी । ततः तस्माद् भयहेतोः नः अस्माकम् अभयम् भयराहित्यम् उपद्रवपरिहारं कृधि कुरु । करोते- र्लोटि विकरणस्य लुक् । “श्रुशृणुपृकृवृभ्यः' इति हेर्धिरादेशः ४ । किं च हे मघवन् धनवन् इन्द्र त्वं [तव] त्वत्संबन्धिनीभिः ऊतिभिः रक्षा- भिः नः अस्मान् । रक्षितुम्2 इति शेषः । शग्धि शक्तः समर्थो भ-

व। शकेः प्राप्तकाले लोट् । भयहेतोः सपत्नात् सका-

शाद् बिभ्यतो3मांस्त्वदीयैः पालनैः पालयितुम् अयं प्राप्तः काल इत्य- र्थः । शकेर्लोटि विकरणस्य लुक् छान्दसः । झलन्तत्वात् हेर्धि- रादेशः । अनन्तरं द्विषः द्वेष्टुन् अस्मदीयान् शत्रून् वि जहि वि- शेषेण छिन्द्धि । मृधः शत्रुसंबन्धिनः संग्रामांश्च वि जहि विशेषेण ना- शय । यद्वा द्विषो मृध इति बाह्याभ्यन्तररूपा द्विविधाः शत्रवो विवक्षि- ताः । संनिहिता [असंनिहिताश्चेति ] वा ॥ द्वितीया ॥ इन्द्र वयमनराधं हवामहेर्नु राध्यास्म द्विपदा चतुष्पदा । मा नः सेना अर्ररुषीरुप गुर्विधूचीरिन्द्रं द्रुहो वि नाशय ॥ २ ॥ इन्द्रम् । वयम् । अनुराधम् । हवामहे । अनु । राध्यास्म । द्विऽपदां । चतुःऽपदा । मा। नः । सेनाः । अररुपीः । उप । गुः । विषूचीः । इन्द्र । द्रुहः । वि। नाशय ॥२॥ अनुराधम् अनुक्रमेण राधनीयं पूजनीयम् । सर्वपि स्वस्वकार्यार्थम् इन्द्रम् एव प्रार्थयन्ते । तथा च दाशतय्याम आम्नायते । “इन्द्रं परेवरे १B मनुराध.

  • Cs offee Pren. We with ÞJ.

18 बिभेदे. 28 रक्षतुम्. 38 विभ्यतो नोस्मान्. ४२