पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२७ अथर्वसंहिताभाष्ये अस्मि । . इणो लुङि गादेशः । द्यावापृथिवी द्यावापृथि- व्यौ मे मम शिवे श्रेयःमदे अभूताम् भवताम् । भवतेश्छान्दसो लुङ्। तथा मे मम प्रदिशः प्रकृष्टा दिशः प्राच्यादिमहादिशः अ- सपत्नाः । सपत्नीव सपत्नः । अकार उपमार्थीयः । “यस्येति च" इति ईकारलोपः । एतत् सर्व “व्यन्त्सपत्ने" इति निपातनात् सि- द्धम्। सपत्नरहिता बाधकहेतुकोपद्रवरहिता भवन्तु । न- ञ्सुभ्याम्" इति अन्तोदात्तत्वम् ॥ भयहेतौ विद्यमाने कथं तत्कृ- तोपद्रवराहित्यम् इत्यत आह न वै त्वा1 द्विष्म इति । हे सपत्न त्वां त्वां न द्विष्मः द्विष्टं मा कुर्मः । वैशब्दः प्रसिद्धौ । त्वद्विषये मया द्वेषो न क्रियत इति सर्वे जानन्तीत्यर्थः । अतो नः अस्माकम् अभयं भयरा- हित्यम् अस्तु । “अव्यये नञ्कुनिपातानाम् इति वक्तव्यम्" इति नञः प्रकृतिस्वरत्वम् ॥ इति द्वितीयेनुवाके पञ्चमं सूक्तम् ॥ 'यत इन्द्र भयामहे" इत्यस्य सूक्तस्य अभयगणे पाठाद् अभय- गणोऽभयायाम्" इति [नक०१] 'आयुष्यश्चाभयश्चैव तथा स्वस्त्ययनो गणः” इति [प० ५.३.] "अभयेनोपतिष्ठते" [शा क°१६] इति नक्षत्रकल्पशान्तिकल्पपरिशिष्टादिषु गणप्रयुक्तो विनियोगोनुसंधेयः ॥ तत्र प्रथमा॥ यत इन्द्र भयामहे ततो नो.अभयं कृधि । मधवञ्छग्धि तव त्वं न ऊतिभिर्वि द्विषो वि मृधो जहि ॥१॥ यतः । इन्द्र । भयामहे । ततः । नः । अभयम् । कृधि । मघवन् । शग्धि । नवं । त्वम् । नः । ऊतिभिः । वि। द्विषः। वि। मृधः । जहि ॥१॥ CRS C omit the accent mark on. W with ADKKVD. " 64 अभय- “ IS संत्वा for स्वा.