पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०२. सू०१४.] ५५० एकोनविंशं काण्डम् । ३२७ ग्रामेषु समृतेषु । अर्तेः “गत्यर्थाकर्मक इति कर्तरि क्तप्रत्य- यः । संप्राप्तेषु सत्सु अस्माकम् इन्द्र एव । रक्षिता भवत्विति शेषः । अस्माकं या इषवः इष्यमाणाः प्रेर्यमाणाः शरास्ता जयन्तु श- त्रून् । यद्वा इषुशब्देन इषुमन्तो योधा उच्यन्ते । लुप्तमत्वर्थीयो निर्देशः । इषुमन्तो योधा1 जयन्तु ॥ अस्माकं संबन्धिनो वीराः विक्रान्तकर्माणः पुरुषा उत्तरे भवन्तु जयेन उत्कृष्टा भवन्तु ॥ हे देवासः देवाः यूयमपि हवेषु । हूयन्ते आहूयन्ते परस्परं योद्धारो योद्धृभिरत्रेति हवः संग्रामः । तेषु अस्मान् अवत रक्षत । यथा जयिनो भवेम तथा अनुपालयत । “अन्येषामपि दृश्यते" इति तिङन्तस्य दीर्घः ॥ इति द्वितीयेनुवाके चतुर्थ सूक्तम् ॥ इदमुच्छ्रेयोवसानम्" इति एकर्चेन सूक्तेन साग्निपत्नीक आहिताग्निः प्रयाणे पर्यवसिते आज्यं जुहुयात् ॥ सैषा ऋग् एवम् आम्नायते ॥ इदमुच्छ्रेयौवसानमागां शिवे मे द्यावापृथिवी अभूताम् । असपत्नाः प्रदिशो मे भवन्तु न वै त्वा द्विष्मो अभयं नो अस्तु ॥ १ ॥ इदम् । उत्ऽश्रेयः । अवऽसानम् । आ। अगाम् । शिवे इति । मे। द्यावा- पृथिवी इति । अभूताम्। असपत्नाः । प्रऽदिशः । मे । भवन्तु । न । वै। त्वा । द्विष्मः । अभयम् । नः । अस्तु ॥१॥ अवसानम् । अवस्यति परिसमाप्तं भवति प्रयाणम् अत्र स्थान इति

उत्। अवसानम् । तद्रूपम् इदम्2 इदानीं गम्यमानं श्रेयःं श्रेष्ठं फलम्

योग्यक्रियाध्याहारः । उद्दिश्य आगाम् प्राप्तवान् So we with A BCDKÄRŠ VDC. PPI raserat: 1. Ra. We with A B C D KKSV DECs. ३ A आभूताम् lion अभूताम्. ४ विमो. ५PJ अय- सानम् ।. ६ Pद्विष्मः ।, J द्विष्मः | changeel froun द्विष्मः ।. We with P. 13 योजयंतु for योधा जयन्तु. 28 इदम् इदम् for इदम्. उन ।