पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२६ अथर्वसंहिताभाष्ये दशमी॥ इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानौ मरुतां शर्ध उग्रम् । महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥१०॥ इन्द्रस्य । वृष्णः । वरुणस्य । राज्ञः। आदित्यानाम् । मरुताम् । शधैः । उग्रम्। महाऽमनसाम् । भुवनऽच्यवानाम् । घोषः । देवानाम् । जयताम् । उत् । अस्थात् ॥ १०॥ वृष्णः कामानां वर्षितुः शस्त्रास्त्राणां वा सांतत्येन प्रक्षेप्तुः इन्द्रस्य रा- ज्ञः राजनशीलस्य वरुणस्य शत्रुनिवारकस्य एतत्संज्ञकस्य देवस्यापि आ- दित्यानाम् अदितिपुत्राणां देवानां मरुतां च उग्रम् उद्भूर्ण शर्धः शत्रु- प्रस1हनसमर्थं बलम् उद् अस्थात् उत्तिष्ठतु शत्रून् हन्तुम् आविर्भव- तु। शृधु प्रसहने । अस्माद् असुन् प्रत्ययः । ततः म- हामनसाम् अदीनमनसां भुवनच्यवानाम् च्यावयितुं समर्थानां भुवने- भ्यो लोकेभ्यो वा शत्रूश्च्यावयितुं शक्तानाम् । च्यवतेरन्तर्भावित- ण्यर्थात् पचाद्यच् । जयताम् शत्रून विनाशयतां देवानां सर्वेषा- मपि घोषः जयध्वनिः उद् अस्थात् उतिष्ठतु ॥ एकादशी ॥ अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु । अस्माकै वीरा उत्तरे भवन्त्वस्मान् देवासोडवता हवेषु ॥ ११ ॥ अस्माकम् । इन्द्रः । समऽऋतेषु । ध्वजेषु । अस्माकम् । याः । इषवः । ताः । जयन्तु। अस्माकम् । वीराः । उत्ऽतरे । भवन्तु । अस्मान् । देवासः । अवत । ह- वेषु ॥ ११ ॥ ध्वजेषु ध्वजवत्सु। ४ अर्शआदित्वाद् मत्वर्थीयः अच् प्रत्ययः ।। सं- IS शत्रुमसन'.