पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०२. सू०१३.] ५५७ एकोनविंशं काण्डम्। ३२५ अस्माकं तनूनाम् शरीराणाम् अविता रक्षिता एधि भव । अ- स्तेर्लोटि "स्वसोरेछौ” इति हेर्ध्यादेशः एवं च ॥ . नवमी ॥ इन्द्र एषां नेता बृहपतिर्दक्षिणा यज्ञः पुर एतु सोमः । देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यनु मध्ये ॥ ९ ॥ इन्द्रः । एषाम् । नेता । बृहस्पतिः । दक्षिणा । यज्ञः । पुरः । एतु । सोमः। देवऽसेनानाम् । अभिऽभञ्जनीनाम् । जयन्तीनाम् । मरुतः । यन्तु । मध्ये ॥९॥ अभिभञ्जतीनाम् अस्मदमित्रान् आभिमुख्येन भङ्क्तुं मर्दयितुम् । त्वर्थे शतृप्रत्ययः । “ड्याश्छन्दसि०" इति नाम उदात्तत्वम् । भ- ञ्जनेन हेतुना जयन्तीनाम् जयनशीलानाम् । जयन्तीनाम् इत्यत्र बहुल1वचनाद् नाम उदात्तत्वं न भवति । एवम् अस्मदर्थं प्रव- र्तमा2नानाम् एषाम् ।लिङ्गव्यत्ययः । आसाम् देवसेना- नाम इन्द्रो नेता अस्तु । बृहस्पतिः पुरः पुरस्ताद् एतु3 दक्षिणा च यज्ञश्च सोमश्च पुर एतु । इति प्रत्येकविवक्षया एकवचनम् । दक्षिणा दक्षिणस्या दिशि बृहस्पतिरेतु यज्ञः सोमश्च पुरस्ताद् एतु इति केचिद् व्याचक्षते । तदा दक्षिणशब्दाद् 'दक्षिणाद् आच्" इति आचि कृते 'चितः" इति अन्तोदात्तत्वम् । यथा "सरस्वती यां पितरो हवन्ते दक्षिणा यज्ञम् अभिनक्षमाणाः" [१३.१.४२, ०१०.१७.९] इत्यत्र दक्षिणाशब्दः अन्तोदातः पठ्यते एवम् अत्रापि स्यात् । अतः यज्ञे दीयमाना गोरूपा दक्षिणा अत्र विवक्षिता । दक्ष वृद्धौ । द्गुद क्षिभ्याम् इनन् [उ०२.५० ] इति इनन्प्रत्यये कृते “न्नित्यादिर्नित्यम्" इति आद्युदात्तत्वं सिध्यति । दिगाख्याने वा व्यत्ययेन आद्युदात्तत्वं द्रष्ट- व्यम्। तथा मरुतो देवताश्च देवसेनानां मध्ये यन्तु गच्छन्तु ॥ .18 बहुवचनात्. 2 5 अस्मदर्थप्रवर्त. 35 एतत्. 66 "