पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२४ अथर्वसंहिताभाष्ये लेन अभि गाहमानः आभिमुख्येन प्रविशन् अदायः निर्दयो निग्राह्ये - ष्वविद्यमानकरुणः । xदय दानगतिरक्षणहिंसादानेषु । अस्माद् घञि बहुव्रीहौ “नञ्सुभ्याम्" इति अन्तोदात्तत्वम् । उग्रः उद्भूर्णबलो वीरः शतमन्युः बहुविधक्रोधः दुश्च्यवनः च्यावयितुं युद्धाङ्गणाद् अपसा- रयितुम् अशक्यः । “छन्दसि गत्यर्थेभ्यः" इति युच् । पृ- तनाषाट् परसेनानाम् अभिभविता । “ छन्दसि सहः” इति ण्विः । 'सहेः साडः सः" इति मूर्धन्यादेशः । अयोध्यः योद्धुं संप्रहर्तुम् अशक्यः ईदृश इन्द्रः युत्सु युद्धेषु । संपदादिलक्षणः क्विप् । अ- स्माकं सेनाः प्रावतु प्रकर्षेण रक्षतु ॥

अष्टमी ॥

बृहस्पते परि दीया रथेनं रक्षोहामित्राँ अपबाधमानः । प्रभऑछवून समृणन्नमित्रानरमाकमेध्यविता तनूनाम् ॥ ६ ॥ बृहस्पते । परि । दीय। रथेन । रक्षःऽहा। अमित्रांन । अपऽबाधमानः । प्रऽभञ्जन् । शत्रून । मऽमृणन् । अमित्रान् । अस्माकम् । एधि । अवि- ता। तनूनाम् ॥६॥ हे बृहसते बृहतां देवानां पते पालक वं रथेन परि दीय । यतिर्गतिकर्मसु पठ्यते । छान्दसो धातुः । अथ वा दीङ् क्षये । अ- नेकार्थवाद् धातूनाम् अत्र गत्य1र्थः । युद्धभूमिं परितो गच्छ व्याप्नुहि । रक्षोहा रक्षसां हन्ता अमित्रान् शत्रून् । अम गत्यादि- षु। अस्माद् इत्रप्रत्ययः । अपबाधमानः सर्वतो नाशयन् । ल- क्षणहेत्वोः” इति हेत्वर्थे शानच् । बाधनेन हेतुना सर्वतो ग- च्छ ॥ शत्रून् प्रभञ्जन प्रकर्षेण मर्दयन् । भञ्जो आमर्दने ।रौ- धादिकः । अमित्रान् शत्रून् प्रभञ्जन् प्रकर्षेण हिंसन् ईदृशस्त्वम् १C RCs रथेन. We with A B DEV Dc. २ R मित्र अप. D मित्र अप.. A मित्रा अप BC'S मित्रों अप. Cs रथेन रक्षोहामि अपबाध'. We with KK v De.

    • . We with BCDRŠKŽVDC. V P मित्रान् । J मित्रान् ।

IS गर्थः for गत्यर्थः. A