पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ°२. सू०१३.] ५५७ एकोनविंशं काण्डम् । ३२३ शत्रुधर्षणसमर्थं वीरम् विक्रान्तम् अत एव उग्रम् उद्भूर्णबलम् इन्द्रम् अनु हर्षध्वम् । एनं1 वीरम् अग्रतः कृत्वा यूयं पश्चाद् उत्साहिनो भ- बत । हृष तुष्टौ । “कर्तरि शप्" इति शबेव जातः शवेवो- त्पन्नः । तस्यापवादत्वेन श्यनोऽ2नुत्पत्तिश्छान्दसी आत्मनेपदं च । त- था इन्द्रम् अनु सं रभध्वम् शत्रुहननाय संरब्धम् उद्योगवन्तम् इन्द्रम् अनु स्वयमपि उद्योगिनो भवत । रभ राभस्ये । इन्द्रं विशिनष्टि । ग्रामजितम् शत्रुसंघस्य जेतारम् । अथ वा ग्रामस्य शत्रु- पुरस्य3 जेतारम् [गोजितम्] शत्रुगवीनां जेतारं वज्रबाहुम् वज्रं बा- हौ यस्येति । “प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ” इति पर- निपातः । जयन्तं शत्रून् अज्म अ4जनशीलम् । सुपो लुक् । यद्वा अज्म अजन्ति अत्र योद्धार इति युद्धस्थानम् । अ- धिकरणे मनिन् प्रत्ययः । युद्धस्थानं जयन्तम् इति । ओजसा वीर्येण प्रमृणन्तम् प्रकर्षेण हिंसन्तं परसैन्यानि । मृण हिंसायाम् । तौदादिकः ॥ सप्तमी ॥ अभि गोत्राणि सहसा गाहमानोदाय उग्रः शतमन्युरिन्द्रः । दुश्च्यवनः पृतनाषाडयोध्योऽस्माकं सेना अवतु प्र युत्सु ॥ ७ ॥ अभि । गोत्राणि । सहसा । गाहमानः । अदायः । उग्रः । शतऽमन्युः । इन्द्रः। दुःऽच्यवनः । पृतनापाट् । अयोध्यः । अस्माकम् । सेनाः । अवतु । प्र। युतऽसु ॥ ७ ॥ गोत्राणि गोः उदकस्य त्रा5णि त्रायकाणिं युद्धक्षेत्राणि वा सहसा ब- ABC Dynaai. Du gaan: changed to geaaa. We with KÄRŠVC. KDV & for 3. We with BCËRS DE OJOFT: I. PATT:1. We with P. J aired: 1. We with P. 15 येन. 28 नोत्पत्ति for ऽनुत्पत्ति 48 जनन- त्रावकाण्यत्राणि. 6 35 परस्य.