पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२२ अथर्वसंहिताभाष्ये अभिऽवीरः । अभिऽसत्वा । सहःऽजित् । जैत्रम् । इन्द्र । रथम् ।आ। तिष्ठ । गोऽविदन् ॥ ५॥ बलविज्ञायः परस्य बलं विजानातीति । "कर्मण्यण्"। य- द्वा अयं मम बलम् इति सर्वैर्बलत्वेन विज्ञायत इति बलविज्ञायः । सर्वस्य बलभूतं1 इत्यर्थः । "अकर्तरि च कारके संज्ञायाम्" इति स्थविरः महान पुरातनो वा प्रवीरः प्रकर्षेण वीरः शूरः । यद्वा प्र2गतान् परागतबलानपि वीरयतीति प्रवीरः सहस्वान् अभिभवनशक्तिमान् वाजी अन्नवान् वेगवान् वा सहमानः अभिभवन् शत्रून् उग्रः उद्भूर्णबलः अभिवीरः अभितो वीरा बलवन्तः अनुचरा य- स्य सः अभिषत्वा अभिषदनशीलः शत्रुसेनाभिगमनशीलः । सदेः क्वनिप् । दकारस्य तकारः । सदिरप्रतेः" इति षत्वम् । [यद्वा सत्वनो वीरान् अभिभवतीति अभिसावा] । सांहितिको मूर्धन्यादेशः । स होजित् शात्रवीयबलस्य जेता गोविदन् गाः3 परकीया धेनूः स्वकीयत्वेन जानन् परगवीः स्वाधीनाः कुर्वन् । वेत्तेः शतृप्रत्ययः । “पूरण- गुणसुहित" इति षष्ठीसमासप्रतिषेधो न भवति । छन्दसि सर्वविधीनां विकल्पितत्वात । हे इन्द्र एवंगुणविशिष्ट स त्वं [जैत्रम्] जय- शीलं रथम् आ तिष्ठ अस्मदर्थं रथम् आरोढुम् अर्हसि ॥

षष्ठी ॥ इमं वीरमनु हर्षध्वमुग्रमिन्द्र सखायो अनु सं रभध्वम् । ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥ ६ ॥ इमम् । वीरम् । अनु । हर्षध्वम् । उग्रम । इन्द्रम् । सखायः । अनु । सम् । रभध्वम्। ग्रामऽजितम् । गोजितम् । वज्रऽबाहुम् । जयन्तम् । अज्म । प्रऽमृण- न्तम् । ओजसा ॥६॥ हे सखायः समानख्यानाः समानबुद्धिकर्माणो योद्धारो यूयम् इमं IS बलभूतम्.28 om.प्र. 18 गोः परकीया धेनुः.