पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

योः । " [अ०२. सू०१३.] ५५७ एकोनविंशं काण्डम् । ३१९ संक्रन्दनोनिमिष एकवीरः शतं सेना अजयत् साकमिन्द्रः ॥२॥ आशुः । शिशानः । वृषभः । न । भीमः। घनाघनः। क्षोभणः । चर्षणीनाम्। समऽक्रन्दनः । अनिमिषः । एकऽवीरः । शतम्। सेनाः । अजयत् । सा- कम् । इन्द्रः ॥२॥ आशुः शीघ्रकारी व्यापको वा । कृवापाजिमिस्वदिसाध्य1शूभ्यः [उ°१.१] इति उण् प्रत्ययः । शिशानः तीक्ष्णीभव2न्मतिः स्वाभिम- तसंपादने व्यग्रः । ४ शो तनूकरणे । व्यत्ययेन आत्मनेपदम् । “ब- हुलं छन्दसि" इति शपः शुः । अभ्यासस्य च इत्वम् । श्यैङ् गतौ इत्यस्य वा । छान्दसो यलोपः । वृषभो न वृषभ इव भीमः भयंकरः धनाधनः हन्ता शत्रूणाम् ।हन्तेः पचाद्यचि ॥ हन्तेर्यत्वं च" इति द्विर्वचनम् । अभ्यासस्य आगागमः । घत्वं च धात्वभ्यास- चर्षणीनाम् मनुष्याणां क्षोभणः क्षोभयिता । कृ-

त्यल्युटः” इति कर्तरि ल्युट् । प्रावृषि वर्षादिना कर्षकादीन् युद्धे

परसेना वा विक्षोभयन् संक्रन्दनः युद्धे रिपूणाम् आह्वाता क्रन्दयिता वा स्तनयित्नूनां वा शब्दयिता अनिमिषः अनिमेषचक्षुः ।मि- पतेः “घञर्थे कविधानम्" इति कः । ततो बहुव्रीहौ "नञ्सुभ्याम्" इति अन्तोदात्तत्वम् । एकवीरः एकवि3क्रान्तः असहाय एव कार्य- समर्थः ईदृश इन्द्रः शतम् बह्वीः सेनाः परकीयाः साकम् सहैव एक- प्रकारेण अजयत जयति । तस्मात्4 तमेवाश्रयत इष्टसिद्ध्यर्थम् इति शेषः ॥ तृतीया ॥ संकन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्सहध्वं युधो नर इधुहस्तेन वृष्णा ॥ ३ ॥ १PP क्षोभनः । २ A D R S जिष्णुनायोध्येनं दुश्चर्वनेन. B जिष्णुनायोध्येन दुश्चर्वनेन. C जिष्णुनायोध्येन दुश्ववनेन. Cs जिष्णुनायोध्यैन दुश्यवनेन. We with K KV Dr. 18 सायाति tor °साध्यशूभ्य इति. 28 तीक्ष्णभव 3.एकविक्रीतः for एकवि- क्रान्तः. 48 तस्मात्तमेवयमाश्रित्य for तस्मात् तमेवाश्रयत.