पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" ३२० अथर्वसंहिताभाष्ये समऽक्रन्दनेन । अनिऽमिषेण । जिष्णुना । अयोध्येन । दुःऽच्यवनेन । धृष्णुना। तत् । इन्द्रेण । जयत । तत् । सहध्वम् । युधः । नरः । इषुऽहस्तेन । वृष्णा ॥३॥ संक्रन्दनेनानिमिषेण व्याख्यातौ । संक्रन्दयित्रा अनिमिष1चक्षुषा जि- ष्णुना जयशीलेन योध्येन2 युद्धसंसक्तेन । ४ युधं संप्रहारे ।ऋ- हलोर्ण्यत्" । 'शकि लिङ् च” इति शक्यार्थे कृत्यप्रत्ययः । दु- श्च्यवनेन [दुःखेन] च्यावयितुं शक्येन अविचाल्येन । "छन्दसि गत्यर्थेभ्यः” इति युच् ४ ॥ धृष्णुना प्रसहनशीलेन इषुहस्तेन । इ- षवो बाणा हस्ते यस्येति बहुव्रीहौ “प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ" इति परनिपातः । वृष्णा वर्षित्रा कामानाम् इन्द्रेण यथोक्तगुण- संपन्नेन सहायेन हे युधः योद्धारः हे नरः मनुष्याः ।“विभा- षितं विशेषवचने बहुवचनम्" इति पूर्वस्य आमन्त्रितस्य अविद्यमान- वत्त्वनिषेधाद् द्वितीयं निहन्यते । योद्धारः शूराः 3यूयं तजयत । जेतव्यम् इति सामर्थ्याल्लभ्यते । किं च तेनैव इन्द्रेण सहायेन तत् स- हध्वम् अभिभवनीयम् इति अभिभवत ॥ चतुर्थी॥ स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन । संसृष्टजित सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥ ४ ॥ सः । इषुऽहस्तैः । सः । निषङ्गिऽभिः। वशी। समऽस्रष्टा । सः । युधः । इन्द्रः। गणेन ।

  • PJ capelaai. We with Ñ. * P **: 1. Jat: I changed to at: 1. We with Ý.

३ A B C K KIV संसृष्टा. De संस्रष्टा changeel to संसृष्टा. We with DR Cs. ogrenie. Soto. We with BCD KÄRV DC C CỔ star:. We with AD RKK S V DCC, ABKKCDRŠ V De Cs PŘJ all read: spital. We with Siyapa. PÓJ PUT I. 18 अनिमिषे. 25 युधे. 8 युधं. XA