पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

योः । " [अ०२. सू०१३.] ५५७ एकोनविंशं काण्डम् । ३१९ संक्रन्दनोनिमिष एकवीरः शतं सेना अजयत् साकमिन्द्रः ॥२॥ आशुः । शिशानः । वृषभः । न । भीमः। घनाघनः। क्षोभणः । चर्षणीनाम्। समऽक्रन्दनः । अनिमिषः । एकऽवीरः । शतम्। सेनाः । अजयत् । सा- कम् । इन्द्रः ॥२॥ आशुः शीघ्रकारी व्यापको वा । कृवापाजिमिखदिसाध्य1शूभ्यः [उ°१.१] इति उण् प्रत्ययः । शिशानः तीक्ष्णीभव2न्मतिः स्वाभिम- तसंपादने व्यग्रः । ४ शो तनूकरणे । व्यत्ययेन आत्मनेपदम् । “ब- हुलं छन्दसि" इति शपः शुः । अभ्यासस्य च इत्त्वम् । श्यैङ् गतौ इत्यस्य वा । छान्दसो यलोपः । वृषभो न वृषभ इव भीमः भयंकरः धनाधनः हन्ता शत्रूणाम् । हन्तेः पचाद्यचि ॥ हन्तेर्घत्वं च" इति द्विवचनम् । अभ्यासस्य आगागमः । घत्वं च धत्वभ्यास- योः। चर्षणीनाम् मनुष्याणां क्षोभणः क्षोभयिता । कृ- त्यल्युटः” इति कर्तरि ल्युट् । प्रावृषि वर्षादिना कर्षकादीन् युद्धे परसेना वा विक्षोभयन् संक्रन्दनः युद्धे रिपूणाम् आह्वाता क्रन्दयिता वा स्तनयिलूनां वा शब्दयिता अनिमिषः अनिमेषचक्षुः । मि- पतेः “घञर्थे कविधानम्" इति कः । ततो बहुव्रीही "नञ्सुभ्याम्" इति अन्तोदाप्तत्वम् । एकवीरः एकविक्रान्तः3 असहाय एव कार्य- समर्थः ईदृश इन्द्रः शतम् बह्वीः सेनाः परकीयाः साकम् सहैव एक- प्रकारेण अजयत जयति । तस्मात् 4तमेवाश्रयत इष्टसिद्ध्यर्थम् इति शेषः ॥ तृतीया ॥ संक्रन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ ३ ॥ १PP क्षोभनः । २ A D R S जिष्णुनायोध्येनं दुश्चर्वनेन. B जिष्णुनायोध्येन दुश्चर्वनेन. C जिष्णुनायोध्येन दुश्ववनेन. Cs जिष्णुनायोध्यैन दुश्यवनेन. We with K KV Dr. 18 सायाति tor °साध्यशूभ्य इति. 28 तीक्ष्णभव 3 .एकविक्रीतः for एकवि- क्रान्तः. 48 तस्मात्तमेवयमाश्रित्य for तस्मात् तमेवाश्रयत. " DS एकविक्रीतः for एकवि-