पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" 1 ३१८ अथर्वसंहिताभाष्ये इन्द्रस्य । बाहू इति । स्थविरौ । वृषाणौ । चित्रा । इमा । वृषभौ । पार- यिष्णू इति । तौ । योक्षे । प्रथमः । योगे। आऽगते । याभ्याम् । जितम् । असुराणाम् । स्वः । यत् ॥ १॥ अस्मिन् सूक्ते शत्रुधर्षणसमर्थ इन्द्रः स्तूयते । स हि स्वबाहुभ्यामेव परान हिनस्तीति तावेव प्रथमं स्तूयेते । स्थविरौ नाम1 स्थूलौ पुष्टौ2 म- हान्तौ वृषाणो अभिमतफलवर्षको आप्रयच्छ दक्षिणादोत सव्यात्" इति हि मन्त्रान्तरम् [७.२७..] । शस्त्रास्त्रवर्षको वा चित्रौ चायनीयौ सर्वैः श्लाघनीयौ। चायृ पूजानिशामनयोः इत्यस्माद् उत्पन्नश्चित्र- शब्द इति यास्को मन्यते [नि १२.६] । कटका3ङ्गदादिभिराभ- रणैर्नानावर्णौ वा इमा इमौ4 परिदृश्यमानौ वृषभौ । लुप्तोपमम् एतत् । वृषभौ पुंगवाविव दुर्ललितौ पारयिष्णू प्रक्रान्तशत्रुहननकर्म समाप्तिं गम- यन्तौ निःशेषं शत्रून मर्दयन्तौ याविन्द्रस्य परमैश्वर्यसंपन्नस्य देवस्य बाहू विद्येते तो बाहू प्रथमः सर्वेभ्य उपासकेभ्यः पूर्वभावी सन् यक्षे पूज- यामि प्रोत्साहयामि । यजतेर्लेटि “सिब्बहुलम” इति सिप् । "टित आत्मनेपदानाम्" इति टेरेत्वम् । किमर्थं यजनम् । योगे आगते च । अप्राप्यमापणं5 योगः । प्राप्तस्य परिरक्षणं क्षेमः । अत्र आ- गतशब्देन क्षेम उच्यते । योगक्षेमार्थं यक्षे6 इति संबन्धः । याभ्यां बाहु- भ्याम् असुराणाम् देवविद्वेषिणां स्वर्यंत् स्वः स्वर्ग तत्र निवासिनो देवान् वा यत् गच्छत्7 बाधकावेन प्राप्नुवत् बलं शारीरं सेनालक्षणं च वीर्यं जितम् पराजितम् । निरस्तम् इत्यर्थः ॥ द्वितीया ॥ आशुः शिशानो वृषभो न भीमो घनाधनः क्षोभणश्चर्षणीनाम् । See foot-notex on the previous paye. A Bomit the visuryn in 7. We with CD KRŠ V DCC. ACDS itaº. We with Ø KRV D. Cs. IS म for नाम. 23 पुष्टा. 35 कटकांगनादि for कटकाङ्गदादि. 4 इमौ इमा इमौ.53 प्रापणयोगः lor प्रापणं योगः. 6S यजत for यक्षे. 78 अगच्छत् for गच्छत्.