पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

6 जु अधिकरणे ल्युट्छ। “ ३१६ अथर्वसंहिताभाष्ये अस्तु । किं तत् । शम् रोगाणां शमनम् योः भयाना यावनं पृथक- रणं च इदम् उक्तं फलं शस्तम् प्रशस्तं समीचीनम् अस्मभ्यम् अस्तु । उत अपि च गाधं प्रतिष्ठाम् । गाधृ प्रतिष्ठालिप्सयोर्ग्रन्ये च । अस्माद् घञ् । प्रतिष्ठां स्थितेरविच्छेदम् । यद्वा गाधं धनलाभं प्रतिष्ठां च क्षेत्रादिरूपं फलम् अशीमहि अश्नुवीमहि । अशू व्या- प्तौ । अस्माद् विधिलिङि विकरणस्य लुक् छान्दसः । आशीलिंङि वा ऊदित्वाद् इडभावः । छन्दस्युभयथा” इति लिङः सार्वधातुकत्वात् लिङः सलोपोनन्त्यस्य" इति सकारलोपः । दिवे धुलोकाय बृ- हते महते सदनाय सर्वेषां निवासस्थानाय । अधिकरणे ल्युट् । पृ- थिव्यै [च] नमः नमस्कारोस्तु ॥ [इति ] द्वितीयेनुवाके द्वितीयं सूक्तम् ॥ 'उषा अप स्वसुः” इति एकर्चस्य सूक्तस्य रात्रिकल्पे शान्त्यर्थजपे 'शान्ता द्यौः” इत्यादिसूक्तत्रयेण सह उक्तो विनियोगः ॥ सा खल्वेषा ऋग् एवम् आम्नायते । उषा अप स्वसुस्तमः सं वर्तयति वर्तनि सुजातता। अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥१॥ उषाः । अपं । स्वसुः । तमः । सम् । वर्तयति । वर्तनिम् । सुऽजाता । अया। वाज॑म् । देवऽहितम् । सनेम। मदेम । शतऽहिमाः।सुऽवीराः॥१॥ उषाः उषःकालाभिमानिनी देवता स्वसुः । यदा उषा अभवत् त. दा अनन्तरमेव रात्रिर्भवतीति परस्पराविनाभावेन रात्रिरुषसः स्वसेत्युच्य- ते । स्वसुः स्वयमेव सारिण्या आगच्छन्त्याः स्वसृभूताया रात्रेः तमः अन्धकारम् अप । गमयतीति योग्यक्रियाध्याहारः । ततः सुजातता सुष्ठु जाता सुजाता तस्या भावः सुजातता । “त्वतलोर्गुणवच- १ A D आपः. BC K KR SV अपः. C अप. P आपः। PJ अः1. We read अप Dalawa. We with A B CKKRŠ V De Cs. DI V DC opraat. We with A BRCS PJ. " withi De.