पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०२. सू०११.] ५५५ एकोनविंशं काण्डम् । ३१५ ते नौ रासन्तामुरुगायमद्य यूयं पात खस्तिभिः सदा नः ॥ ५ ॥ ये। देवानाम् । ऋत्विजः । यज्ञियासः । मनोः । यजत्राः । अमृताः । ऋ- तडज्ञाः। ते । नः । रासन्ताम् । उरुगायम् । अद्य । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ५॥ देवानाम् “शं न इन्द्राग्नी" इत्यादिसूक्तद्वयप्रतिपादितानाम् [ऋत्विजः] ऋतौ काले यष्टारः । "ऋत्विग्दधृक्” इत्यादिना ऋत्विक्शब्दो निपातितः । यज्ञियासः यज्ञारे मनोः प्रजापतेः यजत्राः यज- नीया यजनार्हा अमृताः अमरणधर्माणः ऋतज्ञाः ऋतं सत्य1भूतं यज्ञं जानन्तो ये देवाः सन्ति ते देवाः अद्य इदानीं नः अस्माकम उरुगा- यम् प्रभूतां कीर्ति रासन्ताम् प्रयच्छन्तु । रासतिर्दानकर्मा । कै गै रै शब्दे । अस्मात् कर्मणि घञ् । आतो युगागमः ॥ हे दे- वाः यूयं नः अस्मान् सदा सर्वदा स्वस्तिभिः । स्वस्तीति अविनाशि- नाम् । क्षेमकरणैरुपायैः पात रक्षतं । सुपूर्वाद् अस्तेः क्तिनि भू- भावाभावश्छान्दसः ॥ षष्ठी ॥ तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम्। अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥ ६ ॥ तत् । अस्तु । मित्रावरुणा । तत् । अग्ने । शम्। योः । अस्मभ्यम् । इदम्। अस्तु । शस्तम्। अशीमहि। गाधम्।उत। प्रतिऽस्याम्। नमः। दिवे । बृहते । संदनाय॥६॥ हे मित्रावरुणा मित्रावरुणौ अहोरात्राभिमानिनौ तत् वक्ष्यमाणं फ- लम् अस्तु । हे अग्ने प्रातःसायंकालाभिमानिन् तत् वक्ष्यमाणं फलम् मुरुगाय. Parar 1. We with Ñ J. 18 सत्यंभूतं. 23 रक्षतु. १०