पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१४ अथर्वसंहिताभाष्ये अहिर्बुध्न्य इति पदद्वयम् एकदेवताप्रतिपादकम् । अहिर्बुध्न्यनामको देवः नः शम् अस्तु । समुद्रः समुद्रवन्ति आपः अस्माद् इति समुद्रः शम् अस्तु । अपां नपात् अपाम् उदकानां न पातयिता । पातयतेः क्विप् । नभ्राण्नपात् " इति नलोपाभावो निपातितः । अ- पानपात्संज्ञको देवो नः शम् शान्त्यै पेरुः पारयिता दुःखेभ्यो भवतु । पृश्निः मरुतां माता देवगोपा देवा गोपयितारो यस्याः सा पृश्निः नः शं भवतु ।गुप् रक्षणे । क्विप् । 'गुपूधूपविच्छिपणिपनिभ्य आय: इति आयप्रत्ययः । अतोलोपयलोपौ1 । देवा गोपा यस्या इति बहुव्रीही पूर्वपदप्रकृतिस्वरः ॥ चतुर्थी ॥ आदित्या रुद्रा वसवो जुषन्तामिदं ब्रह्म क्रियमाणं नवीयः । शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥ ४ ॥ आदित्याः । रुद्राः । वसवः । जुषन्ताम् । इदम् । ब्रह्म । क्रियमाणम् । 66 नवीयः। शृण्वन्तु। न । दिव्याः । पार्थिवासः। गोऽजाताः । उत । ये। यज्ञियासः॥४॥ आदित्याः अदितेः पुत्रा द्युस्थाना देवाः । g“दित्यदित्यादित्य- पत्युत्तरपदात्" " इति ण्यः । रुद्राः रोदयितारः अन्तरिक्षस्थाना देवाः वसवः पार्थिवाः जुषन्ताम् सेवन्ताम् । किं तत् । नवीयः नवत- रम् इदम् इदानीं क्रियमाणं ब्रह्म स्तोत्रं जुषन्ताम इत्यन्वयः ॥ अन्ये च नः अस्मदीयं ब्रह्म स्तोत्रं शृण्वन्तु । के ते । दिव्याः दिवि भवाः पा- र्थिवासः पार्थिवाः । “आज्जसेरसुक्" । पृथिवीस्थानाः गोजाताः गोः पृश्नेर्जाता मरुतो देवाः । उत अपि च यज्ञियासः य- ज्ञार्हा ये देवास्तेपि नः स्तोत्रं शृण्वन्तु ॥ पञ्चमी॥ ये देवानामृविजौ यज्ञियासो मनोर्यजत्रा अमृता ऋतज्ञाः । IS अतालोपयतोलापौ.