पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१२ अथर्वसंहिताभाष्ये भवन्तु । अर्वन्तः अश्वाः शं नो भवन्तु । शम् एव सन्तु गावः धेनवः । सुकृतः सुकृतकर्माणः कर्मणैव देवत्वं प्राप्ताः सुहस्ताः शोभनहस्ताश्चमस. तक्षणादिषु कुशलहस्ता ऋभवः एतत्संज्ञकाः कर्मदेवाः । तथा च दाश- तय्याम् आर्भवसूक्ते समाम्नायते । “एकं वि चक्र चमसं चतुर्वयं निश्च- र्मणो गाम् अरिणीत धीतिभिः" इति [°४.३६.४] । “विष्ट्वी शमी तरणिवेन वाघतो मर्तासः सन्तो अमृतत्वम् आनशुः” इति [ऋ०१. ११०.४] ॥ "ऋभवो वै देवेषु तपसा सोमपीथम् अभ्य1जयन्" इ- त्यादिना ऐतरेयब्राह्मणे [३.३०] ऋभूणां मनुष्याणामेव देवैः सह सो. मपानं विद्यत इति प्रपञ्चितम् । अत एव अत्र सुकृत इत्युक्तम् । एवंविधमहिमान ऋभवो देवा नः अस्माकं शम् शान्त्यै दुरितनिवृत्त्यै भवन्तु । पितरो हवेषु स्तोत्रेषु । विषयसप्तमी। यज्ञेषु वा नः अस्माकं शं भवन्तु । द्वितीया ॥ शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु । शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः॥२॥ शम् । नः । देवाः । विश्वऽदेवाः । भवन्तु । शम् । सरस्वती । सह । धी- भिः । अस्तु। शम् । अभिऽसार्चः । शम् । ऊं इति । रातिऽसाचः । शम् । नः । दिव्याः। पार्थिवाः । शम् । नः । अप्याः ॥२॥ विश्वदेवाः । अत्र दीव्यतिः स्तुत्यर्थः । बहुस्तोत्रका देवा इन्द्रादयः । यद्वा देवा इति विश्वदेवानां विशेषणम् । दीव्यन्तो विश्वे सर्वे देवाः पू- र्वस्मिन् पक्षे “बहुवीही विश्वं2 संज्ञायाम्” इति पूर्वपदान्तोदातावम । वि. तीयस्मिन् पक्षे तत्पुरुषपक्षे पूर्वपदप्रकृतिस्व3रत्वाद् आधुदात्तत्वेन भवित- व्यम् । अत्र “परादिश्छन्दसि बहुलम्" इति पूर्वपदान्तोदात्तत्वम् । दे- १P अभिऽसाचः।. We with PJ. ISTI, 2S' Foradiantº. 38 FT. The emendation is conjectural.