पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०२. सू०११.] ५५५ एकोनविंशं काण्डम् । ३११ शम् । नः । देवः । सविता । त्रायमाणः । शम् । नः । भवन्तु । उषसः । विऽभाती। शम् । नः । पर्जन्यः । भवतु । प्रडजाभ्यः । शम् । नः । क्षेत्रस्य । पतिः । अस्तु । शमऽभुः ॥१०॥ त्रायमाणः रक्षन् भयेभ्यः सविता सर्वस्य प्रेरको देवः नः शं भवतु । विभातीः विभात्यो व्युच्छन्त्यः । “वा छन्दसि” इति पूर्वसवर्ण- दीर्घः । उषसः उषोभिमानिन्यो देवताः नः शं भवतु । पर्जन्यः वृष्टिप्रदो नः अस्माकं प्रजाभ्यः [शं भवतु] । शंभुः सुखस्य भावयिता क्षेत्रस्य पतिः । रुद्रं क्षेत्रपतिं माहुः केचिद् अग्निम अथापरे । स्वतन्त्र एवं वा कश्चित् क्षेत्रस्य पतिरुच्यते ॥ एतत्संज्ञको देवः नः अस्माकं शम् शान्त्यै अस्तु भवतु । "वि- प्रसंभ्यो ड्वसंज्ञायाम्" इति विप्रसमुपपदाद् भवतेर्विहितो डुप्रत्ययः शंपू- र्वादपि व्यत्ययेन भवति ॥ [इति ] द्वितीयेनुवाके प्रथमं सूक्तम् ॥ "शं नः सत्यस्य" इति सूक्तस्य रात्रीकल्पादिषु शान्त्यर्थजपे पूर्वसू- क्तेन सह उक्तो विनियोगः ॥ तत्र प्रथमा। शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः । शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु ॥ १ ॥ शम् । नः । सत्यस्य । पतयः । भवन्तु । शम् । नः । अर्वन्तः । शम् । ऊं इति । सन्तु । गावः। शम् । नः । ऋभवः। सुऽकृतः । सुऽहस्ताः । शम् । नः । भवन्तु । पितरः । हवेषु ॥१॥ सत्यस्य पतयः पालयितारः सत्यशीला देवाः नः अस्माकं शम् शान्त्यै 1Som.के.2 एवं.