पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१० अथर्वसंहिताभाष्ये उरुचक्षाः विस्तीर्णतेजाः उरुभिर्बहुभिर्दृश्यमानो वा । *"अस- नयोः प्रतिषेधो वक्तव्यः" इति ख्याञादेशाभावः । सूर्यो नः अ- स्माकं शम् शान्त्यर्थम् उदेतु ॥ चतस्रः प्रदिशः महादिशः शं नो भ. वन्तु ॥ ध्रुवयः ध्रुवाः । ध्रु स्थैर्ये । औणादिकः किप्रत्ययः । उ- वङ् आदेशः। स्थिराः पर्वताः शं नो भवन्तु ॥ सिन्धवः स्यन्द- माना नद्यः नः शं सन्तु । शम् एव सन्तु आपः ॥ नवमी ॥ शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः । शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शम्वस्तु वायुः ॥९॥ शम । नः । अदितिः । भवतु । व्रतेभिः । शम् । नः । भवन्तु । मरुतः । सुऽअर्काः। शम् । नः । विणुः । शम् । ऊं इति । पूषा । नः । अस्तु । शम् । नः । भवित्रम् । शम् । ॐ इति । अस्तु । वायुः ॥९॥ अदितिः अखण्डनीया देवमाता व्रतेभिः व्रतैः कर्मभिः सार्ध नः अ- स्माकं शं भवतु1 । स्वर्काः । अर्कोर्चतेः स्तुतिकर्मणः इति या- स्कः। सुष्टुतयो मरुतः नः शं भवन्तु । शं नोस्तु विष्णुः । शम् एव पूषा नो अस्तु । भवित्रम् भुवनम् उदकम् अन्तरिक्षं वा शं नो- स्तु। “अर्तिलूधूसूखिनीसह" इति विहित इत्रप्रत्ययो भवतेरपि व्यत्ययेन उत्पन्नः । उशब्दः अवधारणे । वायुः शम् शान्त्यर्थमे- वास्तु। "मय उञो वो वा” इति उञो वकारादेशः ॥ दशमी ॥ शं नो देवः सविता त्रार्यमाणः शं नो भवन्तूषसो विभातीः । शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शंभुः ॥ १० ॥ BS CBt. We with DKÄRV De Cs. IS' भवंतु.