पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०२. सू०१०.] ५५४ एकोनविंशं काण्डम् । ३०९ नोस्तु । त्वष्टा सर्वप्राणिनां रूपाणि विकुर्वन् देवः ग्नाभिः देवपत्नीभिः सार्धं शं नोस्तु । इह अस्मिन् कर्मणि शृणोतु च । नः स्तोत्रम् इति शेषः ॥ सप्तमी॥ शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः । शं नः स्वरूणां मितयो भवन्नु शं नः प्रस्वः शम्वस्तु वेदिः ॥ ७ ॥ शम् । नः । सोमः । भवतु । ब्रह्म । शम् । नः । शम् । नः । ग्रावाणः । शम् । ऊं इति । सन्तु । यज्ञाः ।। शम् । नः । स्वरूणाम् । मितयः । भवन्तु । शम् । नः। प्रऽस्वः । शम्। ऊं इति । अस्तु । वेदिः ॥७॥ सोमः लतारूपः अभिषूयमाणः शं नोस्तु । ब्रह्म स्तोत्रशस्त्रात्मकं शं नोस्तु । ग्रावाणः अभिषवसाधनभूताः शं नः सन्तु । यज्ञाः सोमनि- र्वर्त्याः क्रतवः शम् एव सन्तु । स्वरूणाम् । लुप्तमत्वर्थीयः । रुमतां यूपानां मितयः उन्मानानि शं नो भवन्तु । प्रस्वः प्रकर्षेण सू- यमाना जायमाना ओषधयः चरुपुरोडाशसंपादिकाः शं नः सन्तु । प्र स्व इति । प्रपूर्वात् सूयतेः क्विप् । कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तः । ततः परस्य जसः “उदात्तस्वरितयोर्यणः स्खरितोनुदात्तस्य” इति स्वरि- तत्वम् । उशब्दः अवधारणे । वेदिः शमेवास्तु । "मय उञो वो वा" इति उशब्दस्य वकारः ॥

अष्टमी ॥ शं नः सूर्य उरुचक्षा उदैतु शं नो भवन्तु प्रदिशश्चतस्रः । शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥।॥ शम् । नः । सूर्यः । उरुऽचक्षाः । उत् । एतु । शम् । नः । भवन्तु । प्रऽदि- शः । चतस्रः। शम् । नः । पर्वताः । ध्रुवयः । भवन्तु । शम् । नः । सिन्धवः । शम् । ऊ इति । सन्तु । आपः ॥४॥ AŘCRŠCs for $. We with DKRVD.. २P प्रऽस्वा.