पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०७ अथर्वसंहिताभाष्ये पञ्चमी ॥ शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशयै नो अस्तु । शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥ ५ ॥ शम् । नः । द्यावापृथिवी इति । पूर्वऽहूतौ । शम् । अन्तरिक्षम् । दृशयै। नः । अस्तु। शम् । नः । ओषधीः । वनिनः । भवन्तु । शम् । नः । रजसः । पतिः । अस्तु । जिष्णुः ॥ ५॥ द्यावापृथिवी द्यावापृथिव्यौ पूर्वहूतौ देवानां प्रथमस्तोत्रार्थम् । यद्वा पूर्वे पूर्वं जाता देवा हूयन्ते इज्यन्ते आहू1यन्ते वेति 2पूर्वहूतिर्यज्ञः तत्र शं नः स्ताम् । अन्तरिक्षम् मध्यमलोकः दृशये दर्शनाय शं नो अस्तु । ओषधीः ओषध्यः वनिनः वनरूपसमुदायिनो वृक्षाश्च शं नो भवन्तु । रजसः लोकस्य पतिः पालकः जिष्णुः जयशील इन्द्रः शं नोस्तु ॥ षष्ठी ॥ शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः । शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥ ६ ॥ शम् । नः । इन्द्रः । वसुऽभिः । देवः । अस्तु । शम् । आदित्येभिः । व- रुणः । सुऽशंसः। शम् । नः । रुद्रः । रुद्रेभिः । जलाषः । शम् । नः । त्वष्टा । ग्नाभिः । इह । शृणोतु ॥ ६ ॥ इन्द्रो देवः वसुभिः एतसंज्ञकैर्देवैः सार्ध नः अस्माकं शम् अस्तु । सुशंसः शोभनस्तुतिर्वरुणः आदित्येभिः आदित्यैः सार्धं शं नोस्तु । ज- लाषः । सुखनामैतत् । 3जलाषः सुखं तद् अस्यास्तीति । अर्श आदित्वाद् अच् प्रत्ययः । सुखकरो रुद्रो रुद्रेभिः रुद्रैः सार्धं शं १B विष्णुः. APJ अनामिः। 18 आह्वयंते. 5 देवहूति° for पूर्वहूति . S omits ष: in जलाप:'. अर्श-