पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०२. सू०१०.] ५५४ एकोनविंशं काण्डम् । ३०७ शम् । नः । धाता । शम् । ॐ इति । धर्ता । नः । अस्तु । शम् । नः । उरूची । भवतु । स्वधाभिः । शम् । रोद॑सी इति । बृहती इति । शम् । नः । अद्रिः । शम् । नः । दे- वानाम् । सुऽहवानि । सन्तु ॥ ३॥ धाता विधाता सर्वस्य देवः नः अस्माकं शम अस्तु । धर्ता विधा- रयिता पुण्यपापानाम् वरुणः शम् एव नः अस्तु । उरूची विस्तीर्ण- गमना विवर्त1गमना वा पृथिवी कथ्यते । स्वधाभिः अन्नैः सह नः अ. स्माकं शं भवतु । बृहती बृहत्यौ रोदसी द्यावापृथिव्यौ शं भवताम्2 । अद्रिः 3पर्वतः शं नो भवतु । नः अस्मदीयानि देवानां सुहवानि सुष्टु- तयः शं सन्तु ॥ चतुर्थी ॥ शं नो अग्निज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् । शं नः सुकृतौ सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥ ४ ॥ शम् । नः । अग्निः । ज्योतिःऽअनीकः । अस्तु । शम् । नः । मित्रावरु- णौ । अश्विनी । शम्। शम् । नः । सुऽकृताम् । सुऽकृतानि । सन्तु । शम् । नः । इषिरः । अभि । वातुं । वातः ॥ ४॥ ज्योतिरनीकः ज्योतींषि अनीके मुखे यस्य स तादृशोग्निः अङ्गना. दिगुणयुक्तो देवः नः अस्माकं शम् अस्तु । मित्रावरुणौ नः शं भव- ताम् । अश्विना अश्विनौ शं स्ताम् । सुकृतां पुण्यकर्मणाम् ।सु- कर्मपाप" इति क्विप् प्रत्ययः । सुकृतानि सुष्ठु कृतानि पुण्यानि नः शं सन्तु । इषिरः गमनशीलो वातः वायुः शम् शान्त्यर्थं नः अ. भि वानु अस्मान् अभिलक्ष्य प्रवातु ॥ १PJ ऊरुची।. ? Parei. We with Ñ J. 13 विवभि• for विवर्त', the einendation being conjeetural. पूर्वतः. 28 भवाम्. 3 S