पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये आत्वं द्रष्टव्यम् । अथ वा पण1 संभक्तौ । अस्मात् क्तिनि जनस- नखनां सन्झलोः" इति आत्वम् ५ ॥

द्वितीया ॥ शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः । शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥ २ ॥ शम् । नः । भर्गः । शम । ऊ इति । नः । शंसः । अस्तु । शम् । नः । पुरमऽधिः । शम् । ऊं इति । सन्तु । रायः । शम् । नः । सत्यस्य । सुऽयमस्य । शंसः । शम् । नः । अर्यमा । पुरुऽजा- तः । अस्तु ॥२॥ भगः भजनीयो देवः । "पुंसि संज्ञायाम्” इति भजतेर्ष- प्रत्ययः । नः अस्माकं शम् अस्तु । शंसः सर्वैः स्तूयमानः । एकदेशेन व्यपदेशः । नराशंसो नाम देवः । उशब्दः अवधारणे । शम् एव नः अस्तु । पुरंधिः पूर्णा धीयते निधीयते संचार्यत इति पुरंधिर्बु- द्विः शं नः अस्तु । रायः धनानि सुखायैव सन्तु । सुयमस्य सुष्टु यन्तव्यस्य शोभनयम2युक्तस्य वा "अहिंसा3सत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः" इति [पा. सू०२.३०] यमस्वरूपं 4पातञ्जले विहितम् । तादृशस्य सत्यस्य शंसः वचनं नः अस्माकं सुखाय भवतु । पुरुजातः बहुमादु- र्भावः अर्यमा देवः शं नोस्तु ॥ तृतीया ॥ शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः । शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥ ३ ॥ १ A BD सुयम॑स्तु. De सुयर्मस्तु clhangel to सुयमस्य. Cs सुयमस्य changed to सुय- मस्तु. P “यमस्तु ।. We with C K ES V PJ. R A B उरुची. We with C D K KR SV Cs De IS om. अथ वा षण सं. 25 मय for यम.. Som. 'सस्या.. 48 पातंजलं. 1