पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

<< [अ०२. सू०१०.] ५५४ एकोनविंशं काण्डम् । ३०५ शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥ १ ॥ शम् । नः । इन्द्राग्नी इति । भवताम् । अवःऽभिः । शम् । नः । इन्द्रा- वरुणा । रातऽहव्या। शम् । इन्द्रासोमा । सुविताय । शम् । योः । शम् । नः । इन्द्रापूषणा । वाजऽसातौ ॥१॥ हो इन्द्राग्नी युवाम् अवोभिः1 रक्षाभिः1 नः अस्माकम् अस्मभ्यं वा शम् शान्त्यै सकलदुःखनिवारणाय भवताम् । इन्द्राग्नी इत्यत्र "आमन्त्रितस्य च" इति आष्टमिकं सर्वानुदात्तत्वम् । रातहव्या रातहव्यौ यजमानैर्दत्तहविष्कौ2 इन्द्रावरुणा इन्द्रावरुणौ । देव- ताद्वन्द्वे च"3 इति आनङ् उभयपदप्रकृतिस्वरत्वं च । शं नः । भ- वताम् इत्यनुषङ्गः । इन्द्रासोमा इन्द्रासोमौ सुविताय । सुखनामैतत् । सुष्ठु प्राप्तव्याय ।सुपूर्वाद् एतेः कर्मणि क्तः । तन्वादित्वाद् उ- वङ् आदेशः। सुखाय शं भवताम्। शं योः इति पदयो- र्रथो यास्केनोक्तः । शमनं च रोगाणां यावनं च भयानाम इति [नि• ४.२१.] । शमु उपशमे । यु मिश्रणामिश्रणयोः । उभयत्र अन्येभ्योपि दृश्यन्ते" इति विच् प्रत्ययः । शमनाय यावनाय च । केचिद् एवं व्याचक्षिरे4 । “शम् आत्महेतुकं सुखम् योः विषययो- गनिमितं सुखम्" इति । इन्द्रापूषणा इन्द्रापूषणौ । वा वपू- र्वस्य निगमे" इति पूषन्शब्दस्य दीर्घाभावः । वाजसातौ । यु- द्धनामैतत् । वाजो वेगः वेगेन सातिः अवसानं विनाशो योद्धृणां भ- वति यत्रेति वाजसातिः युद्धं तत्र । अथ वा वाजः अन्नं तल्लाभा- र्थम् । विषयसप्तमीः । शं नो भवताम् । षो अ- न्तकर्मणि 'स्त्रियां क्तिन" । "ऊतियूनि०" इत्यादिना निपातनाद् {PJ Esferaret i. Wc with Ñ. 19 अहोरक्षाभिः though Sayana's text is all right. 23 हविष्यो. 3 3 चेति स- मानम् for च इति आनङ. 18 व्याचक्षे for व्याचक्षिरे. " शमनाय यावनाय “वा षपू. वाजसातौ । यु- र्थम् ।