पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" ३०४ अथर्वसंहिताभाष्ये अस्ति । एतस्यैव विवरणम् यद् इह क्रूरं यद् इह पापम् इति । अथ वा त्रिर्वचनेन दोषशमयितृत्वं निश्चितं भवतीति यद् इह घोरम् इत्यादि त्रिर्वचनम् । एवं तच्छान्तं तच्छिवम् इति शान्तिशिवशंशब्दस्त्रिर्वचनम् । यथा कर्मान्तरेषु “अदीक्षिष्टायं ब्राह्मणः [सं० ६.१.४.३] इत्यादिषु आवेदनरूपेषु त्रिरुपांशुवचनम् त्रिरुच्चैर्वचनम् एवम् अत्रापि । सर्वथा घोरं कर्म शमयामः । तच्च सर्वथा शान्तं भवत्वित्यर्थः ॥ इति एकोनविंशे काण्डे प्रथमेनुवाके दशमं सूक्तम् ॥ प्रथमोनुवाकः समाप्तः ॥ द्वितीयेनुवाके एकादश सूक्तानि । तत्र “शं न इन्द्राग्नि" इति प्र- थमसूक्तत्रयस्य अहरहः पुरोहितेन कर्तव्ये राज्ञः शय्यागृहप्रवेशनकर्मणि शान्त्यर्थजपे विनियोगः । अथातो रात्रीसूक्तानां [विधिम्] अनुक्रमि- ष्यामः" इति प्रक्रम्य उक्तं परिशिष्टे । शान्ता धौरिति जपित्वा राजानं वासगृहं नयेत्” इति [प०४.५.] ॥ अत्र शान्ता द्यौरित्येकेन शान्त्यर्थ- प्रतिपादकं समनन्तरम् इदं सूक्तद्वयं गृह्यते । यत्रैकेन प्रतीकेन समा- नार्थं समानदेवत्यं समानार्ष वा समनन्तरं सूक्तं गृह्यते तद् अर्थसूक्तम् इति अथर्वणां परिभाषणात् ॥ तथा अनेन सूक्तत्रयेण "शान्ता द्यौः" इति पूर्वेण च तुलापुरुषमहा- दाने आज्यहोमं कुर्यात् । “अथातस्तुलापुरुषविधि् व्याख्यास्यामः" इति प्रक्रम्य उक्तं परिशिष्टे । “प्राक्तन्त्वम् आज्यभागान्तं कृत्वा महाव्याहृतिसा. वित्रीशान्तिब्रह्मजज्ञानम् इति हुत्वा" इति [प०११.१.] । अत्र शा- न्तिपदेन शान्त्यर्थप्रतिपादकम् इदं सूक्तत्रयं पूर्व च गृह्यते ॥ अस्य सूक्तत्रयस्य शान्तिप्रतिपादकत्वेन शान्तिगणे पाठाद् “आयुष्यः शान्तिः स्वस्तिगण ऐरावत्याम्" [न . क°१६.] इत्यादिषु विनियोगो द्रष्टव्यः ॥ तत्र प्रथमा । शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या। 15 आथर्वणां. 2 Som. ज.