पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ब्रह्म । ३०२ अथर्वसंहिताभाष्ये ब्रह्म । बृहतेर्मनिन् प्रत्ययः । देशकालान1वच्छिन्नं सच्चि- दानन्दलक्षणं परं ब्रह्म । प्रजापतिः प्रजाना पालक: सर्वनियन्ता स- र्वान्तर्यामी । धाता सर्वस्य धाता चतुर्मुखो ब्रह्मा । वेदाः साङ्गाश्च- त्वारः । लोकाः सप्तसंख्याकाः । सप्तर्षयः प्रसिद्धाः । अमयः व्याख्या- ताः । तैः सर्वैः मे मम स्वस्त्ययनम् । स्वस्तीति अविनाशिनाम । तस्य अयनं प्राप्तिः कृतम् स्वस्त्ययनं क्षेमप्रापणं कृतम् । “आशं- सायां भूतवच्च" इति भूतवत् प्रत्ययः । इन्द्रो मे शर्म सुखं यच्छतु प्रयच्छतु । ४ दाण् दाने । “पाप्रा" इत्यादिना यच्छा- देशः ॥ एवं ब्रह्मा मे इत्याद्यास्त्रयः पर्याया व्याख्येयाः ॥ त्रयोदशी ॥ यानि कानि चिच्छान्तानि लोके सप्तऋषयो विदुः । सर्वाणि शं भवन्तु मे शं मे अस्त्वभयं मे अस्तु ॥ १३ ॥ यानि । कानि । चित् । शान्तानि । लोके । सप्तऋषयः । विदुः । सर्वाणि । शम् । भवन्तु । मे । शम । मे । अस्तु । अभयम् । मे। अस्तु ॥ १३ ॥ उक्त्ता2नुक्तानि शान्तिकारणानि संगृह्य आह । सप्तर्षयः अतीन्द्रिया- र्थद्रष्टारो लोके सर्वेषु लोकेषु यानि कानि चिद् वस्तूनि शान्तानि शान्तिकारणानि विदुः जानन्ति तानि सर्वाणि मे शं भवन्तु ॥ एत- सूक्तमतिपाद्यस्यार्थस्य संग्रहेण वचनम् शं मे अस्त्वभयं मे अस्त्विति । 'शान्ता द्यौः" इत्यादिना धुलोकादयः शान्ता भवन्तु इति यद् उ. क्तं तस्यायम् अर्थः । मे शम् अस्तु सर्वतः सुखम् अस्तु । अभ- यम् भयराहित्यं चास्त्विति ॥ १R °नि लोके सप्तर्षयो. A "नि लोके सप्त ऋषयो. BOनि लोके सप्तर्षयो. नि लोके सप्तर्षयो. De °नि लोकै सप्तऋषयो changed to °नि लोके सप्तऋषयौ. D नि लोके सप्तऋषयो. Cs °नि लोके सप्तर्षयो. PJ लोके ।. We with KV Dc. २ P विदुः ।. We with PJ. 18 omits न in °कालानव. 23 उक्तान्युक्तानि.