पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०१ [अ०१. सू०९.] ५५३ एकोनविंशं काण्डम्। एकादशी ॥ शं रुद्राः शं वसवः शमादित्याः शमग्नयः । शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ॥ ११ ॥ शम । रुद्राः । शम् । वसवः । शम् । आदित्याः । शम् । अग्नयः । शम्।नः। महंऽऋषयः । देवाः । शम। देवाः । शम्। बृहस्पतिः॥११॥ रुद्राः एकादश । वसवः अष्टौ । आदित्याः द्वादश । अग्नयः वै- तानिकास्त्रयः सभ्यावसथ्याभ्यां सह पञ्च वा । एकः स्मार्तो 1वाग्निः । महर्षयः सप्त । देवाः द्योतमानास्तेजोरूपाः । महर्षिविशेषणम् एतत् । देवाः इन्द्रादयः । बृहस्पतिः तेषां पुरोधाः । एते रुद्रादयः [नः] शम् शान्त्यै भवन्तु ॥ द्वादशी॥ ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोग्नयः । तैर्मे कृतं स्वस्त्ययनमिन्द्रौ मे शर्म यच्छतु ब्रह्मा मे शर्म यच्छतु । विश्व मे देवाः शर्म यच्छन्तु सवै मे देवाः शर्म यच्छन्तु ॥ १२ ॥ ब्रह्म । प्रजाडपतिः । धाता । लोकाः । वेदाः । सप्तडऋषयः । अग्नयः । तैः । मे । कृतम् । स्वस्त्ययनम् । इन्द्रः । मे । शर्म । यच्छतु । ब्रह्मा । मे। शर्म । यच्छतु। विश्वे । मे । देवाः । शर्म । यच्छन्तु । सर्वै । मे । देवाः । शर्म । य- च्छन्तु ॥ १२॥ ACDCs staat:. We with KÅR V DCPŮJ. KKB DATTET. R महऋषयो. महर्षयो. v महर्षयो. C महऋषयो. De महऋषयो changed to महऋषयो. PJ महऽऋषयः। महऽऋषयः ।. ३ PF देवाः 1. J देवाः changck to देवाः ।. ४ देवाः।. We with P. ५ सप्तर्षयो'. 3 सप्तर्पयो . D देवाः संप्तऋषयो changed to वेदाः सप्तऋषयो . Cs देवाः सप्तर्षयो. R देवाः सप्तर्षयो changcal to वेदाः सप्तर्षयो', J देवाः । changed to : 1. We with ABCDV. 18 वोग्निः for वाग्निः