पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०० अथर्वसंहिताभाष्ये स्वाताः भूमावप्रकाशं निगृहिता वलगाः । वलगाः पीडार्थे भूमेरधो बाहुप्रदेशे निखन्यमाना अस्थिकेशादिवेष्टिता विषवृक्षादिनिर्मिताः 1पुंत्तल्यो वलगा इत्युच्यन्ते । तथा च तैत्तिरीयके "रक्षोहणो वलगहनः" इत्यत्र समाम्नायते । “असुरा2 वै निर्यन्तो देवानां प्राणेषु वलगान् न्यखनन । तान् बाहुमात्रेन्वविन्दन् । तस्माद् बाहुमात्राः स्वायन्ते” इति [तै सं० ६.२.११.१] । तेपि वलगा नः अस्माकं शम् भवन्तु । उल्काः आ- काशान्निष्पतन्त्य3 आयतज्वालाः । उल्कादर्शनम् अनर्थकारि । उल्काः खदर्शनजनितं दुरितं शमयन्तु । देशोपसर्गाः देशे जनपदे उपसर्गा ईतिबाधाः । उशब्दश्चार्थे । तेपि शम् शान्ता भवन्तु ॥ दशमी ॥ शं नो ग्रहांश्चान्द्रमसाः शमादित्यश्च राहुणा । शं नौ मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः ॥ १० ॥ शम् । नः । ग्रहा- । चान्द्रमसाः । शम् । आदित्यः । च । राहुणा । शम् । नः । मृत्युः । धूमऽकेतुः । शम् । रुद्राः । तिग्मऽतेजसः ॥१०॥ चान्द्रमसाः चन्द्रमसः संबन्धिनश्चन्द्रमण्डलस्य भेदकाः संघर्षका ये अङ्गारकाद्या ग्रहाः सन्ति ते [नः] शं भवतु । राहुणा ग्रहेण ग्रस्त आदित्यश्च शम् शान्त्यै भवतु । आदित्यस्य अतितेजस्वित्वेन इतरग्रहैरुप- प्लवाभावाद्4 राहुणेति विशेषितम् । तथा मृत्युः मारको धूमकेतुः उत्पातः । धूमकेतोरनिष्टकारित्वं कौशिकेन सूत्रितम् । “अथ यत्रैतद् धूमकेतुः सप्त- ऋषीन् उपधूपयति तद् अयोगक्षेमाशङ्कम् इत्युक्तम्" [इति कौ. १३. ३५.] । स धूमकेतुः शम् दोषनिर्घाताय भवतु । तिग्मतेजसः तीक्ष्णतेजसो रुद्राः रोदका एतत्संज्ञका देवाश्च खतेजःसंतापकम् उपद्रवं परिहरन्तु ॥ १ A VCs °दित्यः शं. k °दित्यश्च शं राहुणा corrected from दियः शं राहणा. B द्वि- त्यत् शं. C D R°दित्यः शं. De °वित्याः संराहुणा changed to द्वित्यः शं राहणा. वित्यः शराहणा cinengeel to °दित्यश्च राहणा. PJ शराहणा. SITET 1. K V with Sayana. We with Š. PL. We with P J. 18 उत्तल्यो. 23 असुरो. 3 80 8. निपतन्त्यः? 48 प्लवभावात. P