पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अन्तो- २९६ अथर्वसंहिताभाष्ये उतऽपाताः । पार्थिवां । आन्तरिक्षाः । शम् । नः । दिविऽचराः । ग्रहाः ॥७॥ मित्रवरुणौ व्याख्यातौ । विवस्वान् विवासयति अपगमयति तम इति विवस्वान्। विपूर्वाद् 1वसेर्वसुः । यद्वा धनस्य नाम विव इति । तद् अस्यास्तीति मतुप् । “मादुपधायाः” इति वत्वम् । अन्तकः सर्वेषां प्राणिनाम् अन्तम् अवसानं करोतीति अन्तकः । अन्तो पपदात् करोतेः “डोन्यत्रापि दृश्यते” इति डः। पार्थिवाः पृ- थिव्यां भवाः [आन्तरिक्षाः] अन्तरिक्षे मध्यमलोके भवा उत्पाताः । शं भवन्तु इति शेषः । [दिविचराः] दिवि द्युलोके चराः संचरन्तो ग्रहाः कालचक्रवशात् परिभ्राम्यन्तः अङ्गारकाद्याः । मित्रादयः सर्वेपि नः अ- स्माकं शम् दोषशमकाः सुखकरा भवन्तु ॥ अष्टमी॥ शं नो भूमिर्वेष्यमाना शमुल्का निहतं च यत् । शं गावो लोहितक्षीराः शं भूमिरव तीर्यतीः ॥ ४ ॥ शम । नः । भूमिः । वेप्यमाना। शम। उल्का । निःऽहतम। च । यत्। शम् । गावः । लोहितऽक्षीराः । शम् । भूमिः । अव । तीर्यती- ॥४॥ पार्थिवान् आन्तरिक्षांश्च उत्पातान् आह । वेप्यमाना कम्पमा- ना । व्यत्ययेन कर्तरि श्यन् प्रत्ययः ।यद्वा प्राणिसंहार- ककालेन वेप्यमाना कम्प्यमाना । कर्मणि “सार्वधातुके यक्" इति यक् प्रत्ययः । सा भूमिः नः अस्माकं शम् शान्त्यै कम्प- दोषपरिहाराय भवतु । तथा उल्कानिहतम् उल्काभिः आयतज्वालारू- | Sec foot-note I on the previous page. So PŮJ. PPJ stafint: t. B वेप्यमाणा. Vवेप्यमाना. Do KDOS वेप्यमाणाः. R वेप्यमानाः. ५ So we with A Bc DR Cs De. V °मुल्कानिहतं. ३ मुल्कानिर्हतं. KK मुल्कानिहतं. ६ B C DR.Cs लो- fega:.. We with KK V D PÅ J. So we with A B CPKKRŠ Dc Cs. V मिरवदीयंती. < PPJ वेष्यमाणाः।. APP I अवतीः । यतीः ।, 15 वसेरसुन् । विव इति for वसर्वसुः । यद्वा धनस्य नाम विव इति. ना।