पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९७ [अ॰१. सू०९.] ५५३ एकोनविंशं काण्डम् । त्रापि मनस उपादानम् । मनःसहितानि [इमानि यानि] पञ्च ज्ञा- नेन्द्रियाणि मे हृदि हृदयप्रदेशे वर्तन्ते । हृदयं हि आत्मनिवासस्थानम् । सुषुप्तिकाले स्वस्वकारणरहितानि सर्वेन्द्रियाणि आत्मनि लीयन्त इति हृ- दीत्युक्तम् । इन्द्रियाणि विशिनष्टि । ब्रह्मणा चेतनेन आत्मना नियन्त्रा संशितानि स्वस्वविषयेषु व्यापारितानि । विषयप्रवणत्वमेव संशितत्वम् । यैरेव इन्द्रियैः घोरम् पापावहं कर्म ससृजे सृष्टं तैरेव इन्द्रियैः सृष्टस्य घोरकर्मणो नः अस्मदर्थं शान्तिः शमनम् अस्तु ॥ षष्ठी॥ शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः । शं न इन्द्रो बृहस्पतिः शं नो भवत्वर्यमा ॥ ६ ॥ शम्। नः। मित्रः । शम् । वरुणः । शम् । विष्णुः । शम् । प्रजाऽपतिः । शम् । नः । इन्द्रः । बृहस्पतिः । शम् । नः । भवतु । अर्यमा ॥ ६ ॥ मित्रः सूर्यः अहरभिमानी । वरुणः रात्र्यभिमानी । विष्णुः व्यापको देवः । [प्रजापतिः ] प्रकर्षेण जायमाना देवतिर्यङ्मनुष्यादयः [प्रजाः] तासां पतिः पालकः । इन्द्रः परमैश्वर्यसंपन्नः । बृहस्पतिः बृहतां देवानां पतिः हितकारित्वेन पालकः । अर्यमा । पूर अर्तेर्धातोः अर्यमन्शब्दो निपातितः ।मित्रादयः अर्यमान्ताः सर्वे देवा नः अस्माकं शम् शान्त्यै भवन्तु । वाक्यभेदात् शम् इति पदस्य प्रतिवाक्यं प्रयोगः ॥ सप्तमी ॥ शं नो मित्रः शं वरुणः शं विवस्वांछमन्तकः । उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥ ७ ॥ शम । नः। मित्रः । शम्। वरुणः। शम्। विवस्वान्।शम् । अन्तकः । $ उत्पाताः. D उत्पाताः changed to उत्पाता.. B उत्पाता। We with A B C D E Cs and PJ. RA B C R Cs °न्तरिमाछंनो. D अन्तरिक्षान्छनो. Sityana's text : उत्पाताः पार्थिवांतरिक्षाः शं नो. We with kSRV Dc. ३ विवस्वान् । We with P J. KR उत्पाता. ३०