पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९६ अथर्वसंहिताभाष्ये यद्1 वाचा अनर्थजातम् उत्पन्नं तदेव स्वकृतम् अनर्थं परिहरत्वित्यर्थः । एवम् उत्तरयोर्मन्त्रयोरपि योज्यम् ॥ चतुर्थी॥ इदं यत् परमेष्ठिनं मनो वां ब्रह्मसंशितम् । येनैव ससृजे घोरं तेनैव शान्तिरस्तु नः ॥ ४ ॥ इदम् । यत् । परमेऽस्थिनम् । मनः । वाम् । ब्रह्मऽसंशितम् । येन । एव । ससृजे । घोरम् । तेन । एव । शान्तिः । अस्तु । नः ॥४॥ परमेष्ठिनम् परमे उत्कृष्टे स्थाने तिष्ठतीति परमेष्ठी । तेन सृष्टम् “त2द- सदेव सन्मनोकुरुत स्याम इति” [तै. बा.२.२.९.१] [इति] सृष्ट्यादौ मनःसृष्टिरुक्ता। आदिवृद्ध्यभावश्छान्दसः । ब्रह्मसंशितम् ब्रह्मणा सृज्यविषये तीक्ष्णीकृतम् इदं सर्वजगन्मूलकारणं यत् मनः विद्यते येनैव मनसा घोरं कर्म ससृजे तेनैव मनसा नः अस्मदर्थं मनःसृष्टस्य घोरकर्मणः शान्तिरस्तु ॥ पञ्चमी॥ इमानि यानि पञ्चेन्द्रियाणि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि । यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥ ५ ॥ इमानि । यानि । पञ्च । इन्द्रियाणि । मनःऽषष्ठानि । मे। हृदि । ब्रह्मणा। सम्डशितानि । यैः। एव । ससृजे । घोरम् । तैः । एव । शान्तिः । अस्तु । नः ॥ ५ ॥ मनः षष्ठं येषां तानि । पूर्वमन्त्रे मनसः पृथगुक्ता3वपि चक्षुरादिसर्वे- न्द्रियाणां स्वस्वविषयज्ञाने मनासाहाय्यस्य अवश्यम् अपेक्षणीयत्वाद् अ- So all our Mss. Så yana's text: qr. Sayana has no comment on cither. ?K K.C RV संसृजे. Dसंसृजे changed to संसृजे. we with B DI K VCs. RA BCDKKRŠ V De Cs agnitat. PŮJ Hat: ingift. We with Sayapa.

  • KK V

ससृजे. D संसृजे changed to ससृजे. We with B C D E SCs. 18' यतवानर्थ for यद् वाचा अनर्थ , which is conjecturally restored. 2 Stou. तद. 8 पृथगुक्तापि.