पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" [अ॰१. सू०९.] ५५३ एकोनविंशं काण्डम। २९५ ष्टाभावः अतः किमिति एषां शान्तिावशासनम् इति । नैष दोषः । मा- क्तनजन्मापादकस्य कर्मणोऽभावेपि ततजन्मकृतदुष्कृतकर्मण उत्तरत्र ति- र्यगादिजन्ममापकत्वे तत्परिहाराय तच्छान्तिराशास्या । तथा मे मदीयं कृताकृतम् । इह कृतशब्देन सम्यग् अनुष्ठितं कर्म न विवक्ष्यते किं तु विरुद्धम आचरितम् अकृतम् अननुष्ठितं स्वाश्रमविहितं कर्म नित्यनैमित्ति- करूपम् । तद् उभयं शान्तम् अस्तु । * "क्तेन नञ्विशिष्टेनानञ् इति कृतशब्दः अकृतेन समस्यते । विरुद्धाचरणविहितानाचरणयोः पतनहेतुत्वं स्मर्यते विहितस्याननुष्ठानान्निन्दितस्य च सेवनात्। अनिग्रहाच्चेन्द्रियाणां नरः पतनम् ऋच्छति ॥ इति ॥ भूतम् उत्पन्नं भव्यम् भविष्यत् । परस्परसमुच्चयार्थौ चकारौ । तद् उभयं शान्तम् । किं बहुना । सर्वम् कालत्रयावच्छिन्नम उक्तम् अनुक्तं च सर्व नः अस्माकं शम् दोषशमयितृ1 सुखमेव भवतु ॥ तृतीया॥ इयं या परमेष्ठिनी वाग् देवी ब्रह्मसंशिता । ययैव संसृजे घोरं तयैव शान्तिरस्तु नः ॥ ३ ॥ इयम । या । परमेऽस्थिनीं । वाक् । देवी । ब्रह्मऽसंशिता । यया । एव । ससृजे । घोरम् । तया । एव । शान्तिः । अस्तु । नः ॥३॥ परमे स्थाने तिष्ठतीति परमेष्ठिनी परमेष्ठिनो ब्रह्मणः पत्नी वा। पुरुषे कृति बहुलम्" इति सप्तम्या अलुक् ४ ।ब्रह्मसंशिता ब्रह्मभि- र्मन्त्रैः सम्यग 2उत्तेजिता सकलवैदिकवाक्यप्रतिपादितस्वरूपा इयं विवद्भिः स्वात्मभूतेन्3 सम्यग् अनुभूयमाना या वाग्देवी वर्तते ययैव वाग्देव्या घो- रम् परेषाम् अरुन्तुदं वचः शापादिरूपं ससृजे सृष्टम् उच्चरितं तयैव वाचा नः अस्मदर्थं शान्तिरस्तु वाचा4 सृष्टस्य घोरकर्मणः शान्तिर्भवतु । De reg changed to geht. We with BDSKÝCRVC-, 18 शदोषशमयि for शम् दोपशमयित. 28 उत्तजिता. ERT fur art are, which is conjectural, Z"- 3 SOS'. 18 रुमसू-