पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू०९.] ५५३ एकोनविंशं काण्डम्। २९३ र्दिशः सधीचीः सहाञ्चना यथास्थितप्रदेशावस्थायिनीः कृत्वा मह्यं मदर्थ शिवतमाः अत्यर्थं सुखकारिणीः कृधि कुरु । सहपूर्वाद् अञ्चते क्विनि “सहस्य सध्रिः" इति सध्र्यादेशः ॥ सप्तमो मन्त्रो यजूरूपः पठ्यते ॥ स्वस्ति नो अस्त्वभयं नो अस्तु नमोहोरात्राभ्यामस्तु ॥ ७ ॥ खस्ति । नः । अस्तु । अभयम् । नः । अस्तु । नमः । अहोरात्राभ्याम् । अस्तु ॥ ७॥ नः अस्माकम् । स्वस्ति इत्यविनाशिनाम् । तद् अस्तु । अभयम् भयराहित्यं च नः अस्माकम् अस्तु । भयादिकं तु अहनि रात्रौ वा संभवतीति तत्परिहारायाह । नमोहोरात्राभ्याम् अहे रात्रये च नमः नमस्कारोस्तु ॥ [इति ] प्रथमेनुवाके नवमं सूक्तम् ॥ प्रत्यहं कर्तव्ये राज्ञो वासगृहमापणकर्मणि शर्करामक्षेपानन्तरं "शा- ना द्यौः" इति शान्तिसूक्तं जपेत् । “अथातो रात्रि1सूक्तानां [विधिम] अनुक्रमिष्यामः" इति प्रक्रम्य उक्तं परिशिष्टे ।त्र्यायुषम् [५.२६.७] 'इति राज्ञे रक्षां कृत्वा असपत्नम् [१९.१६] इति शर्करा अभिमन्नत्र्य 'अङ्गुष्ठात् प्रदक्षिणं प्रतिदिशं क्षिपेत् । शान्ता द्यौरिति जपित्वा राजानं 'वासगृहं नयेत्" इति [प०४.५.] ॥ पिष्ठ2रात्रिंकल्पेपीदं शान्तिसूक्तं विनियुक्तम् [प०६. ५.] ॥ अस्य सूक्तस्य शान्तिप्रतिपादकत्वेन शान्तिगणे पाठाद् “आयुष्यः शान्तिः स्वस्तिगण [ऐरावत्याम्" इति] [नक०१७ ] ऐरावत्यादिषु विनियोगो द्रष्टव्यः ॥ 66 66 तत्र प्रथमा ॥ शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम् । ? Pomits 4 in arabera. RABCDR Š 2 for £. We with KKV. 18'रात्री.. 28 पिपिष्टरात्रे कल्पे.