पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९२ अथर्वसंहिताभाष्ये धनार्थ1 प्रयास्यतः पुरुषस्य पथि शिवागमनं शिवादर्शनं तडनिश्रवणं नपुं- सकदर्शनं च निषिध्धम् । तत्परिहारायाह । हे पुरुष शिवा । क्रोष्टुना- मैतत् । नियतं स्त्रीलिङ्गम् । विरुद्धं शब्दायमानापि शिवा ते तव ग- च्छतः पापनाशिका दुर्निमित्तदोषनिवारिका भवतु । तथा षण्डकः नपुं- सकः पुरुषश्च अभिमेधंताम् प्रोत्साहयतु । स्वदर्शन2स्पर्शनादिदोषं3 परिहार्य त्व4कार्यसिद्ध्यनुकूलो भवतु । मेधृ संगमे । भौवादिकः । अ- भिमेधनं नाम प्रोत्साहनम् इति आपस्तम्बेनोक्तम् । "प5लयोभिमेधन्ते" इति [आप०२३.१०] ॥ षष्ठी ॥ इमा या ब्रह्मणस्पते विषूचीर्वात ईरते। सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि ॥ ६ ॥ इमाः । याः । ब्रह्मणः । पते । विषूचीः । वातः । ईरते । सध्रीचीः । इन्द्र । ताः । कृत्वा । मह्यम् । शिवऽतमाः । कृधि ॥ ६ ॥ हे ब्रह्मणस्पते । उत्तरार्धे इन्द्रेति निर्देशात् तस्य विशेषणम् एतत् । ब्रह्मणः मन्त्रसंघस्य पते स्वामिन् सर्वमन्त्रप्रतिपाद्य इन्द्र इमाः परिदृ- श्यमाना [याः] प्राच्यादिदिशः । कर्म । वातः वात्यारूपो वायुः विषूची: विष6गञ्चना ईरते ईर्ते । यथा प्राच्यादिदिग्विभागो न भवति तथा परि- भ्रमयतीत्यर्थः । प्राची वा प्रतीचीवत् प्रतीयते प्रतीची वा प्राचीवत् प्र- तीयते अन्यदिगात्मना वा प्रतीयते तथा व्यामोहयतीति यावत् । महा- वाते वाति एवं भवतीति प्रसिद्धिः । विषूचीरिति । विषुशब्दोपप- दाद् अञ्चतेः क्विन् । “अञ्चतेश्वोपसंख्यानम्" इति ङीप् । अचः" इति अकारलोपे “चौ" इति दीर्घः । ईर गतौ । आदादिकोनुदात्तेत । 'बहुलं छन्दसि" इति शपो लुगभावः । हे इन्द्र ता विषूची- १B शिवतमाकृधि. 1S is confused here, reading धनार्थ प्रयास्यन् पुरुषेण पथि शिवांगं शिवा क्रोष्टुनामैतत् । दर्शनं तध्वनिश्रवणं नपुंसकदर्शनं च निषिद्धं तत्परिहारायाह हे पुरुष नियतं &c. The emendation is conjectural. 28 स्वदर्शस्पर्शना. 35 दोषपरिहार्य. 45 तत्कार्य. 50 तप्तनथो for पखयो, 68 विष्वगच for वियगश्ना. 66