पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- प्रत्येक- २९० अथर्वसंहिताभाष्ये प्रातःकालः शोभनः सुखो भवतु । प्रातरादिशब्दैः सह सुशब्दः समृद्ध्यर्थे समस्यते । स समासः अव्ययीभावः । प्रातःकाला: सुकारित्वेन समृद्धा भवन्तु । सुसायम् सायंकाला अपि सुखाः समृद्धाः । सुदिनम् दिनशब्दः अहोरात्रपरः सुखानि अहानि सुखा रात्रयश्च । सुमृगम मृगा हरिणादयः अर्थार्थम् अनुकूले नक्षत्रे गच्छतो मम भा. विफलसूचकत्वेन अनुकूलगतिचेष्टायुक्ता भवन्तु । एवं सुशकुनम् श- कुनाः काकादयः स्वरगतिचेष्टादिभिः अनुकूला मे सन्तु । एवं नक्ष- त्राणि संप्रार्थ्य नक्षत्राधिदेवताः प्रार्थयते । हे अग्ने । कृत्तिकानक्षत्रदेव- ताऽग्निः तदुपलक्षिताः सर्वनक्षत्रदेवता यूयं सुहवम् सुष्ठु आह्वानुमर्हम् अ- मर्त्यम् अमरणधर्माणम् अविनश्वरं द्युलोकं स्वस्ति क्षेमेण गत्वा अभिन- न्दन् हविःप्रदातृन् अभिलक्ष्य हृष्यन् आय आगच्छ । प्रत्येक- विवक्षया एकवचनम् ॥ केवलोऽग्निरेव वा संबोध्यते । हे अग्ने सुहवम् सुष्टु हविः तत्तद्देवतार्ह1 हविः अमर्त्यम् अमरणधर्मकं तत्तन्नक्षत्रदे- वतासंघं स्वस्ति क्षेमेण गत्वा । अनतर्णीतण्यर्थः। गमयित्वा पुनः अस्मान् अभिनन्दन् आय आगच्छ । इ गतौ । भौवा- दिकः । आड्ढर्षस्य लोटि हौ रूपम् । चतुर्थी ॥ अनुहवं परिहवं परिवादं परिक्षवम् । सर्वैर्मे रिक्तकुम्भान् परा तान्त्सवितः सुव ॥ ४ ॥ अनुऽहवम् । परिऽहवम् । परिऽवादम् । परिऽक्षवम् । सर्वैः । मे। रिक्तऽकुम्भान् । परा । तान् । सवितः । सुव ॥ ४ ॥ अनुकूले नक्षत्रे धनार्थं गच्छतः पुरुषस्य भाविकार्यप्रतिबन्धकानि प- श्वादाह्वानादीनि2 दुर्निमित्तानि । तेषां निवारणम् आशास्ते । अनुहवम् १ D परिक्षवम्. CR B C परिछ्यम्. We with A S K K VDr. RAB C DR SCS कुम्भान्ग. D पंग़ changet to परा. We with VK .. ३ ADS सुवः. Ife with ÞÁ CRVDEC PPJ PJ yfish. We with ľ. 4PJ yrarl. We with Ñ. 15 तत्तद्देवत्यहं हविः मयं. 23 हादीनि.