पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६ अथर्वसंहिताभाष्ये "यानि नक्षत्राणि" [इति ] सूक्तस्य नक्षत्रहोमे पूर्वसूक्तेन सह उक्तो विनियोगः ॥ तत्र प्रथमा॥ यानि नक्षत्राणि दिव्यन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु । प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु ॥ १ ॥ यानि। नक्षत्राणि। दिवि। अन्तरिक्षे। अप् डसु । भूमौ । यानि। नगेषु । दिक्षु । प्रऽकल्पयन् । चन्द्रमाः । यानि । एति । सर्वाणि । मम । एतानि । शि- वानि । सन्तु ॥१॥ दिवि धुलोके अन्तरिक्षे मध्यमलोके अप्सु उदकेषु भूमौ पृथिव्यां न- गेषु पर्वतेषु दिक्षु च यानि नक्षत्राणि दृश्यन्ते धुलोके देवतात्मना अ- न्तरिक्षे तेजोमण्डलाकारेण अप्सु प्रतिबिम्बनेन । उदये च अस्तमयकाले च भूमिसमानदेशे पर्वतसमानप्रदेशे च प्रतीतेर्भूमिः1 पर्वताश्च अधिकर- णत्वेन2 उच्यन्ते । दिक्षु प्रतीतिस्तु स्फुटा । चन्द्रमाः यानि नक्षत्राणि प्रकल्पयन् प्रकर्षेण 3कल्पयन् संभोगसमर्थानि कुर्वन् प्रोत्साहयन् एति प्रा- प्नोति एतानि सर्वाणि नक्षत्राणि मम शिवानि सुखकराणि सन्तु भवन्तु ॥ द्वितीया ॥ अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे। योगं प्र पद्ये क्षेमं च क्षेमं प्रपद्ये योग च नमोहोरात्राभ्यामस्तु ॥ २ ॥ अष्टाविंशानि । शिवानि । शम्मानि । सह । योगम् । भजन्तु । मे। योगम् । प्र । पद्ये । क्षेमम । च । क्षेमम् । प्रा पद्ये । योगम् । च । नमः । अहोरात्राभ्याम् । अस्तु ॥ २ ॥ अष्टाविंशानि प्रत्येकम् अष्टाविंशतेः संख्यायाः पूरणानीति सर्वाणि अष्टाविंशानीत्युक्तम् । पूरणार्थे डट्प्रत्यये कृते “ति विंशतेर्डिति" ABCRS for. We with DKKVDC. IS onits tl: hisargu in भूमिः. S अधिकरणेन. 33 प्रकल्पयन्.