पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८७ [अ०१. सू०७.] ५५१ एकोनविंशं काण्डम्। इति सिप् । आत्मनेपदेष्वनतः" इति अस्य अदादेशः । [यद्वा] रासृ शब्दे । आत्मनेपदी । अनेकार्थत्वाद् धातूनाम् अत्र रासतिर्दानार्थे । नक्षत्रविवक्षया एकवचनम् । देवी देव्यः । बहुवचनस्य ए- कवचनम् आदेशः। उत्तराः अषाढाः वैश्वदेव्यः ऊर्जम् बलकरम् अन्नम् अन्नरसम्1 आ वहन्तु अस्मदभिमुखं प्रापयन्तु । अभिजित् अभि- जयसाधनं ब्रह्मदेवत्यं नक्षत्रं मे मम पुण्यमेव रासताम् प्रयच्छतु । पू- र्ववद् रातेर्लोटि "बहुलं छन्दसि' इति शपो लुगभावः । पूर्ववत् सिवात्मनेपदे । रासतेर्वा रूपम् । श्रवणः विष्णुदेवत्यः श्रविष्ठाः धनिष्ठा वासव्यश्च सुपुष्टिम् शोभनां पुष्टिं पशुपुत्रादिपोषं कुर्वताम् ॥ " पञ्चमी॥ आ। आ मे महच्छतभिषग् वरीय आ मे द्वया प्रोष्ठपदा सुशर्म । आ रेवती चाश्वयुजौ भगै मे आ मे रयिं भरण्य आ वहन्तु ॥ ५ ॥ आ। मे। महत् । शतऽभिषक् । वरीयः । आ। मे। द्वया । प्रोष्ठऽपदा । सुऽशर्म। आ। रेवतीं । च । अश्वऽयुजौ । भगम् । मे। आ।मे। रयिम् । भरण्यः । आ । वहन्तु शतभिषक् शतविशाखा ऐन्द्री वरीयः उरुतरम् । "प्रियस्थिर" इत्यादिना उरुशब्दस्य ईयसुनि वर् आदेशः । उरुतरं फलं मे मम आ व॑हत आवहतु । वहेलेंटि अडागमः ।द्वया द्वि- प्रकारा । ङीपः स्थाने व्यत्ययेन टाप् प्रत्ययः । प्रोष्ठपदा अ- जैकपाद्देवत्या पूर्वाभाद्रपदा अहिर्बुध्न्यदेवत्या2 उत्तराभाद्रपदा च सुशर्म शोभनं सुखं गृहं वा आ वहत् इति क्रियानुषङ्गः ॥ रेवती पौष्णी मे मम भ- गम भाग्यम् आ वहतु । अश्वयुजौ अश्विदेवत्यौ आ वहताम् इति । भरण्यः याम्यो मे मम रयिम् धनम् आ वहन्तु प्रापयन्तु । द्वितीय आकारः पूरणः ॥ [इति ] प्रथमेनुवाके अष्टमं सूक्तम् ॥ 13 अनरसनावह अस्म. 2S' अहिर्बुध्या ton अहिर्बुध्न्यदेवत्या. प्रकारा।