पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०६ अपर्वसंहिताभाष्ये पूर्वा पूर्वे फल्गुन्यौ अर्यमदेवत्यम् एतत्संज्ञकं पुण्यम् अस्तु । अत्र अ- स्मिन् नक्षत्रगणे फल्गुन्यौ उत्तरे च भगदेवत्यम् एतन्नक्षत्रं च । पुण्यम् इति अनुषङ्गः । हस्तः सावित्रः पुण्यमदोस्तु । चित्रा ऐन्द्री शिवा मङ्गल- कारिणी । स्वाती वायव्या मे मम सुखांस्तु । राधे विशाखे इति प- दद्वयं विशाखानक्षत्रवाचि । राधासंज्ञकं विशाखासंज्ञकं च एकं नक्षत्रम् ऐन्द्रानं सुहवेति सुहवं भवत्विति लिङ्गवचनविपरिणामेन योज्यम् । अ. नुराधा राधे अनु राधयोः पश्चाद्भावि एतन्नामकं मैत्रं नक्षत्रं सुहवा सुष्ठु आह्वातुम् अर्हा । ज्येष्ठा ऐन्द्री च सुहवा । विन्नक्षत्रस्य मूल- संज्ञां निर्वक्ति अरिष्टर्मूलम् इति । मूलम् इति नक्षत्रस्य रूढं नाम न भवति किं तु यौगिकम् सर्वेषाम् अरिष्टानां पादभेदेन पितृमातृस्वधन- नाशानां निदानम् । अरिष्टमूलम् इति वक्तव्ये मूलम् इति एकदेशेन व्यपदिशन्ति सत्यभामा भामेतिवत् । तादृशम् अरिष्टनिदानं मूलसंज्ञकं पितृदेवत्यं सुनक्षत्रम् शोभननक्षत्रं मम श्रेयःप्रदं भवतु ॥ चतुर्थी ॥ अन्नं पूर्वा रासतां मे अषाढा ऊर्जं देव्युत्तरा आ वहन्तु । अभिजिन्मे रासतां पुण्यमेव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् ॥ ४ ॥ अन्नम् । पूर्वा । रासताम् । मे । अषाढाः।। ऊर्जम् । देवी । उत्डतराः । आ। वहन्तु। अभिऽजित् । मे । रासताम् । पुण्यम् । एव । श्रवणः । श्रविष्ठाः । कुर्वताम् । सुऽपुष्टिम् ॥ ४॥ पूर्वा अषाढाः । तेज:प्रदेशबहुत्वापेक्षया बहुवचनम् । पूर्वाषाढाः अ- ब्देवत्याः मे मह्यम् अन्नम् अदनीयं भोग्यं रासताम् 1ददतु । राते र्लोटि व्यत्ययेन आत्मनेपदम् । बहुलग्रहणाद् अलेट्यपि “सिब्बहुलम्" CATT. DHEC. We with A BRŠKÄ V.DCC. ABCDRŽË DC Camera 3. KVETETT * with Sayaņa. We with Sayana. So PŮJ. P आषाढाः।. We with PJ. ५ PF देहि। उत्तरे ।. We with Sayana. ६P कुर्वताम् ।

18 ददातु.