पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९५ [अ०१. सू०७.] ५५१ एकोनविंशं काण्डम्। हे अग्ने कृतिकाः । कृतिकानक्षत्रस्य आग्नेयवाद् अग्निः संबोध्यते । एवम् उत्तरेषां रोहिण्यादीनां नक्षत्राणां तत्तद्देवता भावनीया इति ज्ञा- पयितुं1 प्रथमम् अग्नेनिर्देशः । तेजःप्रदेशोपाधिबहुत्वापेक्षया कृत्तिका इति बहुवचनम् । बहुप्रदेशाभिमानिनो नक्षत्रस्य ऐक्यात् सुहवम् अस्वि- ति एकवचनम् । एवम् उत्तरेषु नक्षत्रेषु द्विवचन् बहुवचनं च प्रदेशो- पाधिभेदाद् इत्यवगन्तव्यम् । कृत्तिकानक्षत्रं सुहवम् सुष्ठु आह्वानुम् अर्हम अस्तु भवतु । स्वदोषांशं परित्यज्य अस्मदनुकूलं भववित्यर्थः । रोहिणी रोहिणीनक्षत्रं च हे प्रजापतिदेवते सुहवम् अस्तु । मृगशिरः मृगस्य शिर इव प्रतीयमानम् एतत्संज्ञकं नक्षत्रम् हे सोम भद्रम् भन्दनीयं मङ्गलप्रदं भवतु । आर्द्रा नक्षत्रं रुद्रदेवत्यं शम् सुखकारि भवतु । पुन- र्वसू . एतत्संज्ञकम् अदितिदेवताकं सूनृता । प्रियसत्यात्मिका वाक् सूनृते. त्युच्यते । सा [भवतु] । वाक्प्रदं भवत्वित्यर्थः । पुष्यस्तिष्यः बार्हस्पत्यः चारु श्रेयःप्रदम् । सर्वत्र अस्तु इति योज्यम् । आश्लेषाः सर्पदेवत्यं नक्षत्रं भानुर्दीप्तिः । * दाभाभ्यां नुः [उ°३.३२] इति नुः । दी- प्तिप्रदम् । मघाः पितृदेवत्यम् एतत्संज्ञक नक्षत्रं मे मम अयनम् गन्तव्यं स्थानम् । भववित्यर्थः ॥ तृतीया॥ पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश्चित्रा शिवा स्वाति सुखो मे अस्तु । राधे विशाखै सुहानुराधा ज्येष्ठा सुनक्षत्रमरिष्ट मूलम् ॥ ३ ॥ पुण्यम् । पूर्वी । फल्गुन्यौ । च । अत्र । हस्तः । चित्रा । शिवा । स्वाति । सुऽखः । मे । अस्तु । राधे । विऽशाखे । सुऽहवा । अनुडराधा । ज्येष्ठा । सुऽनक्षत्रम् । अरिष्ठ । मूलम् ॥३॥ V Kand Säynna's test: Farat. We with ACDÄRBS DC PŮJ. ABCDKËRŠ V DC: PBJ pogach is what all on uns, road. Př J अरिष्ट । मूलम् ।. अरिष्ट mms stand for an original अरिष्टम्. ISशापयित्री for शापयितुं.