पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सपर्यामि । २६४ अथर्वसंहिताभाष्ये अहानि प्रत्यहम् एकैकनक्षत्रसद्भावाद् अहःशब्देन नक्षत्राण्युच्यन्ते । ना- कम् । कम् सुखम् अकं दुःखम् न विद्यते अकं दुःखं यस्मिन स नाकः स्वर्गः । "नभ्राण्नपात्" इति नञो नलोपाभावेन नि- पातितः ।नाकं स्वर्गलोकम् । आसितानि इत्यध्याहारः । धुलो- कावस्थितानि नक्षत्राणि गीर्भिः स्तुतिरूपाभिर्वाग्भिः मन्त्रकरणकैर्हविर्भिर्वा सर्पयामि । सपर्यतिः1 परिचरणकर्मा । परिचरामि । कि- मर्थ तद् आह तुर्मिशाम् इति । तुर्मयो हिंसकाः हिंसाकारिणः तान् श्यति तनूकरोतीति तुर्मिशाँ । तुर्वतेहिंसार्थाद् औणादिको मिप्र- त्ययः । “लोपो व्योः” इति वलोपः । शो तनूकरणे इत्यस्माद् “आतो- नुपसर्गे कः" । [ यद्वा] तुरो हिंसकान् मिषति स्पर्धते हिनस्तीति तुर्मिशां । मिष स्पर्धायाम् इत्यस्माद् मूलविभुजादित्वात् कप्रत्य- यः । मूर्धन्यस्य तालव्योपजनश्छान्दसः । एवंविधव्युत्पत्तिदर्शनाद् अनव- ग्रहः । बाधकनिवारयित्रीं सुमतिम् शोभनाम्3 अनुग्रहबुद्धिम् इ- च्छमान: इच्छन् कामयमानः । "लक्षणहेत्वोः" इति हेतौ शा- नच् प्रत्ययः । दुःखनिवारकनक्षत्रानुग्रहबुद्धयेषणाद्धेतोरित्यर्थः । ए- वम् अस्मिन् मन्त्र्वे सर्वाणि नक्षत्राणि संघशः मार्थितानि ॥ अथ उत्तराभिर्ऋग्भिश्चतसृभिः कृतिकादीनि नक्षत्राणि प्रत्येकं प्रार्थ्यन्ते । द्वितीया ॥ सुहवमग्ने कृतिका रोहिणी चास्तु भद्रं मृगशिरः शंमार्द्रा । पुनर्वसू सूनृता चारू पुष्यो भानुराश्लेेषा अयनं मघा मे ॥२॥ सुऽहम् । अग्ने । कृतिकाः । रोहिणी । च । अस्तु । भद्रम् । मृगशिरः। शम् । आर्द्रा। पुनर्वसू इति पुनःऽवसू । सूनृता । चारु । पुष्यः । भानुः । आऽश्लेषाः । अयं- नम् । मधाः । मे ॥२॥ १ A B समाद्रा. D समा. CSSD समा changral to शमा . We with KKR V. ? Jarl. We with PĚ. PÉJE. Wc with Sâyana and our Satūbitá. P पुष्यः । 15 परिचरणकर्मा परिचरणकर्मा. 28 एवंविधा. 38शोभनादनु