पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

66 [अ॰१. सू०७.] ५५१ एकोनविंशं काण्डम् । २६३ "चित्राणि साकम्" इति “यानि नक्षत्राणि" इति सूक्तयोर्नक्षत्रदेव- ताज्यहोमे तद्धविहोंमे च विनियोगः । “अथ नक्षत्राणाम् उपचारं व- क्ष्यामः" [न .क°१] इति प्रक्रम्य नक्षत्रकल्पे सूत्रितम् । “एतेषां चैव "ऋक्षाणां ध्रुवस्थानोपसादिनाम् । यथावर्णानि पुष्पाणि वासांस्येवानुले- "पनम् । इमा आप इत्येतैः षड्भिः प्रतिगृह्णन्तु1 भगवन्ति नक्षत्राणि 2इत्ये- "तैर्ययोक्तं कृत्वा अथाज्यभागानो चित्राणि साकं दिवि रोचनानि यानि नक्षत्राणी3त्याज्यं हुत्वा" इति [न. क०६] । “अथ नक्षत्रहवींषि । घृतं कृतिकाभ्यः । सर्वबीजानि रोहिण्यै” इति प्रक्रम्य सूत्रितम् । “क्षी- रिवृक्षाङ्कुरा अश्विनीभ्याम् । कृष्णतिलाः सर्पि4मधुमिश्रा भरणीभ्यः । चित्राणि साकं दिवि रोचनानि [१९.७] यानि नक्षत्राणि [१९..] 'इति हुत्वाभयेन [६.४०] उपस्थाय तन्त्रं परिसमापयेत्” इति च [न क°१२] ॥ तत्र प्रथमा॥ चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि । तुर्मिशं सुमतिमिच्छमानो अहानि गीर्भिः सपर्यामि नाकम् ॥१॥ चित्राणि । साकम् । दिवि । रोचनानि । सरीसृपाणि । भुवने । जवानि। तुर्मिशम् । सुऽमतिम् । इच्छमानः । अहानि । गीःऽभिः । संपर्यामि । नाकम् ॥१॥ चित्राणि चायनीयानि नानावर्णानि वा दिवि द्योतमाने स्वर्गे साकम् सह रोचनानि रोचमानानि दीप्यमानानि । “अनुत्दातेतश्च ह- लादेः" इति युच् प्रत्ययः । भुवने भुवर्लोके अन्तरिक्षे सरीसृ- पाणि पुनःपुनः सर्पन्ति । सृपेर्यङ्लुगन्तात् पचाद्यच् । “न धातु- लोप आर्धधातुके” इति लघूपधगुणाभावः । सरीसृपाणि इत्यनेनविलम्बगमनप्रतीतावाह । जवानि शीघ्रगामीनि अनुक्षणम् 5आवर्तमानानि So we with ABCDKÄRŠ V DEPÓJ. Csapaifa. So PÞJ. 18 प्रतिगृहति. 28 तंत्रैः for इत्येतैः. We with the nukshettrakul yet. 3S नक्ष- आणि अभयेनोपत्याज्यं. 4S on सर्पिः. 5S' अनुश्नमाणमावर्त.