पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६२ अथर्वसंहिताभाष्ये बा० १.३०] श्रुताः पदार्या एकविंशतिदारुयुक्तेध्मत्वेन भाविताः । एवम् इध्मानाम् एकविंशतेर्दारूणां संपादनेन इध्मरूपं कृतम् पूर्व तु पृषकत्वेन परिधानकाले परिधिरूपणं कृतम् इति द्रष्टव्यम् । यत यदा देवाः प्र- जापतिप्राणेन्द्रियरूपा यज्ञं तन्वानाः मानसं यज्ञं कुर्वाणाः पुरुषं वैराजं पशुम् अबन्धन् तं पुरुषमेव पशुत्वेन भावितवन्तः । एतदेवाभिप्रेत्य पू. र्वत्र पुरुषेण हविषा इत्युक्तम् ॥ एकादशी॥ मूर्ध्नो देवस्य॑ बृहुतो अंशवः सप्त सप्ततीः । राजः सोमस्याजायन्त जातस्य पुरुषादधि ॥ १६ ॥ मूर्ध्नः । देवस्य । बृहतः । अंशवः । सप्त । सप्ततीः । राज्ञः । सोमस्य । अजायन्त । जातस्य । पुरुषात् । अधि ॥ १६ ॥ सर्वस्य यज्ञस्य सोमसाध्यात्वाद् अत्रापि यज्ञे परंपरया 1सोमसंबन्धं दर्श- यितुं सोमः अनया प्रस्तूयते । पुरुषात् यज्ञात्मनः वैराजाद् वा । अ- धिशब्दः पञ्चम्यर्थानुवादी । जातस्य निष्पन्नस्य सोमस्य राज्ञः सप्त स- प्रगुणिताः सप्ततीः सप्ततयः सप्तगुणितसप्ततिसंख्याका अंशवः किरणाः बृहतः महतो देवस्य द्योतनात्मकस्य “सहस्रबाहुः पुरुषः" "इत्यादिना निरूपितस्य आदिपुरुषस्य मूर्ध्नः सकाशाद् अजायन्त उद्भूताः ॥ अयम् अर्थः । विविधो हि सोमः वल्लीरूपो देवतारूपश्चेति । तत्र लतारूपस्य सोमस्य स्वसाध्याः प्रकृतिविकृत्यादिभेदेन नानासंख्याकाः प्रकृतिरूपाः अग्निष्टोमादिसप्तसंस्थाः नानासंख्याक2 विकृतिभेदेन [च ऋतवः ] पुरुषमे- धक्तुनिर्वर्तकनारायणपुरुषस्य शिरसः सकाशाद् उद्भूता इति । कलारू- पस्य तु सोमस्य द्युलोके सप्तगुणितसप्ततिसंख्याकाः किरणा निष्पन्नाः । सूर्यस्य तु सहस्रकिरणाः सोमस्य तु दशोनपञ्चशतसंख्याकाः किरणा दे- वस्य मूर्ध्नोजायन्त इति ॥ [इति ] एकोनविंशे काण्डे प्रथमेनुवाके सप्तमं सूक्तम् ॥ 18 होम. 28 °संख्याक.