पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६१ 1 [अ॰१. सू०६.] ५५० एकोनविंशं काण्डम् । यज्ञात् संभृतम् समुत्पन्नं पृषदाज्यं पृषत् विचित्रं बिन्दुमद् आज्यम् । अथ तत् पृषदाज्यम् कर्म आरण्यान ग्राम्यांश्च द्विविधान् पशृंश्चक्रे प्राणेन्द्रियस- मष्टिरूपः प्रजापतिः । तत्रैव अर्थान्तरम् । पृषदाज्यम् दधिमिश्रम् आज्यं संभृतम् संपादितम् । दधि च आज्यं च इत्येवमादि भोग्यजातं सर्वं संपादितम् इत्यर्थः । तथा द्विविधान् पशृंश्चक्रे प्राणेन्द्रियसमष्टिरूपः प्र. जापतिरेवेति ॥ दशमी॥ सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । देवा यद् यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ १५ ॥ सन्त । अस्य । आसन् । परिऽधर्यः । त्रिः । सप्त । समऽइधः । कृताः देवाः । यत् । यज्ञम् । तन्वानाः । अबध्नन्। पुरुषम् । पशुम् ॥१५॥ यत् यदा यज्ञम् अश्वमेधं पुरुषमेधं वा तन्वानाः कुर्वाणाः साध्या देवाः स्वस्मिन् यज्ञे पुरुषं पशुम् अश्वभूतं मुख्यं पुरुषं वा अबध्नन् यूपे बद्धवन्तः तदानीम् अस्य यज्ञस्य सप्त सप्तसंख्याकानि गायत्र्यादीनि च्छन्दांसि त्रिः सप्त एकविंशतिसंख्यायुक्ताः परिधयः समिधश्च कृताः सं- पादिता आसन् । ऐष्टिक्यः पञ्चदशभिः सामिधेनीभिर्ऋग्भिराधीयमानाः पञ्चदश समिधः एका अनुयाजसमित् हे आधारसमिधौ त्रयः परिधयः इति एकविंशतेर्दारूणां संपादनेन इध्मरूपं कृतम् ॥ अथ वा अस्य सांकल्पिकयज्ञस्य गायत्र्यादीनि सप्त च्छन्दांसि परिधय आसन् । ऐष्टिक- स्य आहवनीयस्य त्रयः परिधयः । औतरवेदिकास्त्रयः । आदित्यश्च स- प्तमः परिधिप्रतिनिधिरूपः । अत एवाम्नायते । “न पुरस्तात् परिदधाति । आदित्यो ह्येवोद्यन् पुरस्ताद् रक्षांस्यपहन्ति" इति [तै सं०२. ६. ६. ३] । त एत आदित्यसहिताः सप्त परिधयः अत्र सप्तच्छन्दोरूपाः । तथा समिधः त्रिः सप्त त्रिगुणितसप्तसंख्याका एकविंशतिः कृताः । “द्वा. दश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः” इति [ऐ० 18 सप्त.