पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६० अथर्वसंहिताभाष्ये पक्षे । सर्वहुतः सर्वात्मा पुरुषः पशुत्वेन हूयतेस्मिन्निति सोयं सर्वहुत त. स्मात् पूर्वोक्ताद् मानसाद् यज्ञात् । शिष्टं समानम् ॥ नवमी॥ तस्माद् यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् । पस्तांश्चक्रे वायव्यानिारण्या ग्राम्याश्च ये ॥ १४ ॥ तस्मात् । यज्ञात् । सर्वऽहुतः । समऽमृतम् । पृषतऽआज्य॑म् । पशून् । तान् । चके । वायव्यानि । आरण्याः। ग्राम्याः । च। ये ॥१४॥ सर्वहुतस्तस्माद् यज्ञात् यज्ञात् अश्वभूताद् यज्ञपुरुषात् संभृतम् संपादितं यत् किंचिद् द्रव्यजातं तत् पृषदाज्यम् । दधिमिश्रम् आज्यं पृषदाज्यम् इत्युच्यते । तद् आसीत् । अथ तत् पृषदाज्यम् कर्म ते देवाः साध्य- नामकाः वायव्यान् वायुदेवत्यान् आरण्यान् अरण्योद्भवान् द्विखुरश्वापद- पक्षिसरीसृपहस्तिमर्कटनादे1याख्यान् सप्तसंख्याकान् एवमादिकान् अन्यान् आरण्यांन् पशुंश्वकै चक्रिरे । पूरे "तिङां तिङो भवन्ति" इति झस्य तादेशः । ये च ग्राम्याः ग्रामोद्भवा गोश्वाजाविपुरुषगर्दभोष्ट्रा ए. वमादिका अन्ये ग्राम्याश्च ये सन्ति तान् पशुंश्चक्रिरे । अरण्ये भवा आरण्याः । “तत्र भवः” इति अण् प्रत्ययः । “ग्रामाद् यत्र- ञौ" इति ग्रामशब्दात् शैषिको यञ् प्रत्ययः । आरण्यपशुविशे- षणे तच्छब्दस्य प्रसिद्धिवाचकत्वम् । ग्राम्यविशेषणे यच्छब्दयोगात तच्छ- ब्दस्य प्रतिनिर्देशः । पशूनाम् अन्तरिक्षद्वारा वायुदेवत्यत्वं मन्त्रान्तरव्या- ख्याने तैत्तिरीयाः समामनन्ति । “वायवः स्थेत्याह । वायुर्वा अन्तरिक्ष- "स्याध्यक्षाः । अन्तरिक्षदेवत्याः खलु वै पशवः । वायव एवैनान् परि- "ददाति" इति [तै ब्रा ३.२.१.४] । आरण्यानामेव वायुरधिपतिरि- ति केचित् ॥ अध्यात्मपक्षे । सर्वहुतस्तस्माद् यज्ञात् पूर्वोक्ताद् मानसाद् KÊCDRS V Trn. Wo with A DcC: JP. २ CRJ वायव्यानार... with A BKRDS V D. CHPŇ. KV arvata. We with CRÉDRS DEC PŮJ. P 31779). We with PJ. “Jarroutal. We witli PĚ. 18 देयाख्याः. र अरण्ये