पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७९ [अ॰१. सू०६.] ५५० एकोनविंशं काण्डम। पशुसृष्टिरुच्यते । तस्मात् यज्ञात्मनः पुरुषाद् अश्वा अजायन्त । ये क्वे च अश्वव्यतिरिक्ता गर्दभा अश्वतराश्च ये के च [उभयादतः] ऊ- र्वाधोभागयोरुभयोर्दन्तयुक्ताः सन्ति ते अ1जायन्त ।“छन्दसि च" इति दन्तस्य दतृभावः ।“अन्येषामपि दृश्यते” इति दीर्घः । 'अनित्यम् आगमशासनम्” इति नुमभावः ।तस्मादेव पुरु- षाद् गावश्च जज्ञिरे ।जनी प्रादुर्भावे । हशब्दश्चार्थे । त-

स्मादेव यज्ञपुरुषाद् अजावयः अजाश्च अवयश्च जाताः ॥ अध्यात्मपक्षेपि

अयम् अर्थः समानः ॥ " अष्टमी ॥ स- तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे । छन्दो ह जज्ञिरे तस्माद् यजुस्तस्मादजायत ॥ १३ ॥ तस्मात् । यज्ञात् । सर्वऽहुतः । ऋचः । सामानि । जज्ञिरे। छन्दः । हु । जज्ञिरे । तस्मात् । यर्जुः । तस्मात् । अजायत ॥ १३ ॥ सर्वहुतः। “सुपां सुलुक्" इति पञ्चम्येकवचनस्य सुः । स- र्वहुतात् । आश्वमेधिकोश्वः सर्वहुतः । पुरुषस्य अश्वमेधत्वम् उक्तम् । य- द्वा सर्वः सर्वाङ्गः सन पशुर्हूयते [स] सर्वहुत् । कर्मणि व्यत्ययेन क्विप् प्रत्ययः । सर्वहुतः अश्वभूतात् तस्माद् यज्ञात् पुरुषाद् ऋ- चः पादबद्धा मन्त्राः सामानि गीत्यात्मकानि जज्ञिरे । तस्मात् यज्ञात् पुरुषात् छन्दः । जसो लुक् । छन्दांसि । हशब्दश्चार्थे । छन्दांसि च ऋगाद्यधिष्ठानानि जज्ञिरे । तस्मादेव पुरुषाद् यजुः प्रश्लि- ष्टपाठात्मको मन्त्रः अजायत । ऋगादीनां लक्षणं जैमिनिना सूत्रितम् । 'तच्चोदकेषु मन्त्राख्या" [जै०२.१.३२] । “तेषाम् ऋग् यत्रार्थवशे- न पादव्यवस्था" [जै०२.१.३५] । 'गीतिषु सामाख्या" [जै०२. १.३६] । “शेषे यजुःशब्दः" [जै०२.१.३७] इति ॥ अध्यात्म- १ BS जशिरे. We with A D K KV R DOCr. KV छन्दांसि lor छन्दो ह. ॥ We with BCDRS De Cs. << <3 18 प्रजायन्त.