पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७६ अथर्वसंहिताभाष्ये षष्ठी॥ तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातमग्रशः। तेन देवा अयजन्त साध्या वसवश्व ये ॥ ११ ॥ तम् । यज्ञम् । प्रावृषा । प्र। औक्षन् । पुरुषम् । जातम् । अग्रऽशः। तेनं । देवाः । अयजन्त । साध्याः । वसवः । च । ये ॥ ११ ॥ तं यज्ञम् यष्टव्यं पुरुषम् अग्रशः अग्रे सृष्ट्यादौ जातम् अश्वभूतं वा प्रावृषा वर्षकेण प्रावृडाख्येन ऋतुना प्रौक्षन् प्रोक्षितवन्तः ।उह्य सेचने। प्रावृट्कालं प्रोक्षणसाधनोदकरूपत्वेन संकल्पितवन्त इत्यर्थः । तेन पुरुषेण देवा अयजन्त इष्टवन्तः । [के ] देवाः तान् आह । ये साध्या वसवश्च एतत्संज्ञका देवाः ॥ अध्यात्मपक्षे । यज्ञम् यज्ञसाधनभू- तम्। करणे नङ् प्रत्ययः । तं पुरुषं पशुत्वभावनया यूपे बद्धम् अग्रशः अग्रतः अग्ने सर्वविकारसृष्टेः पूर्वं जातम् पुरुषत्वेन उत्पन्नं संकल्पात्मके यज्ञे प्रावृषा प्रौक्षन् प्रावृट्कालेन प्रोक्षितमिव मनसा कृतवन्त इत्यर्थः । तेन पुरुषरूपेण पशुना देवाः अयजन्त मानसं यागं निष्पा- दितवन्तः । के ते देवा इति त उच्यन्ते । साध्याः सृष्टिसाधनयोग्याः साधयन्तीति साध्याः । x"कृत्यल्युटो बहुलम्" इति कर्तरि “अचो यत्" इति यत् प्रत्ययः । वसवः वासकाः प्राणाः इन्द्रियाणि च । द्वयेपि देवनशीलत्वाद् देवा इत्युच्यन्ते ॥ तम् । सप्तमी॥ तस्मादश्वा अजायन्त ये च के चौभयादतः । गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥ १२ ॥ तस्मात् । अश्वाः । अजायन्त । ये । च । के। च । उभयादतः। गावः । ह । जज्ञिरे । तस्मात् । तस्मात् । जाताः । अर्जऽअवयः ॥१२॥ ACDBS Cs spina. We with KÄRVDE. PJ al. We with 8. IK V out 1. We with BCDRS DE Cs. P 3518tart: 1. Wc with Ø J.