पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७७ [अ०१. सू०६.] ५५० एकोनविंशं काण्डम् । पञ्चमी॥ यत् पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ १० ॥ यत् । पुरुषेण । हविषा । देवाः । यज्ञम् । अतन्वत । वसन्तः । अस्य। आसीत्।आज्यम् । ग्रीष्मः । इध्मः । शरत् । हविः ॥१०॥ "उषा वा अश्वस्य मेध्यस्य" [बृ. आ०१.१.१] इत्यादिना पुरुषस्य अश्वत्वेन उपासना आम्नायते । अतोत्र पुरुषस्य अश्वत्वात् हविष्ट्वम् । अश्वमेधे हि अश्वः पशुः । अथ वा मुख्यः पुरुष एव पुरुषमेधे पशुः । तस्माद् अयम अर्थः । यत् यदा पुरुषेण अश्वरूपेण पुरुषरूपेण वा हविषा देवाः साध्यनामका यज्ञम् अतन्वत अकुर्वत तदानीम् अस्य यज्ञस्य वसन्तः रसानाम् उत्पादक ऋतुः स्वमहिम्ना आज्यम् होम्यम् आ- सीत् । ग्रीष्मः शोषक ऋतुः इध्मः अग्निसमिन्धनसाधनभूतकविंशतिदारु- मयात्मकः पदार्थ आसीत् । शरत शीर्यन्ते पच्यन्ते अस्याम् ओषधय इति शरद् ऋतुः हविः यज्ञियचरुपुरोडाशादिहवीरूपोभवत् ॥ अध्यात्मपक्षे । यत् यदा पुरुषेण प्रजापतिना हविषा हविष्ट्वेन संकल्पितेन हविरन्तरस्या- भावाद् देवाः प्राणाः प्राजापत्या इन्द्रियाणि च यज्ञम् संकल्पात्मकम् अ- तन्वत अकुर्वत । यद्वा यज्ञमेव अन्वतिष्ठन् । स्रष्टकामः प्रजापतिर्देवः देवशब्दवाच्यप्राणादिभेदेनोच्यते । अथ वा पूर्वोक्तकमेण देवशरीरेषु उ- त्पन्नेषु ते देवा उतरसृष्टिसिद्ध्यर्थं तत्साधनत्वेन यज्ञम् अतन्वत । कं- चिद् यज्ञम अन्वतिष्ठन् । द्रव्यस्य अद्यापि अनुत्पन्नत्वेन हविरन्तराभा- वात् पुरुषस्वरूपमेव मनसा हविष्ट्वेन संकल्प्य तेन पुरुषाख्येन हविषा यत् यदा मानसं यज्ञम् अकुर्वत तदानीम् अस्य यज्ञस्य वसन्तर्तुरेव आज्यम् अभूत । तमेव आज्यत्वेन संकल्पितवन्तः । एवं ग्रीष्मः इध्मावेन संक- ल्पितः । शरत्1 पुरोडाशादिहविष्ट्वेन संकल्पिता । पूर्व2 पुरुषस्य हविःसामा- न्यरूपत्वेन संकल्पः वसन्तादीनां तु आज्यादिषु विशेषरूपत्वेनेति द्रष्टव्यम् ॥ BD S feat. We with CKRV De. २PJ अतन्वत ।. We with P. 18 समित् for शरत्. 25 पूर्व for पूर्व.